SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ ६२६] [विवेकमञ्जरी "निस्तुषं समभागं च तत्त्वत्रितयमादितः । महाव्रतानि पञ्चैषु भावनाः पञ्च पञ्च च ॥१॥ [ ] तपश्च द्वादशविधं तत्र द्वादश भावना : । अष्टौ स्पष्टौजसः किञ्च दर्शनस्य प्रभावनाः ॥२॥ [ ] गुरूपदेशतो बद्ध्वा स्वमनःपारदं ततः । तेनैता योजयेत् प्राज्ञास्तत्त्वमुख्या महौषधीः ॥३॥ [ ] मिथ्यात्ववमनं मोहलङ्घनं मलपातनम् । कृत्वा पूर्वं ततः कुर्यादिदं धर्मरसायनम् ॥४॥ [ ] न जन्म न जरा नापि मरणं तस्य कहिर्चित् । 10 इदं यः कार्यवित् कुर्याज्जिनवाक्यरसायनम्" ॥५॥ [ ] इति ॥१२७॥ जइ मुणसि पावकम्मं सम्मं दुक्खाण कारणं जीव ! । तह वि हु जुज्झ पमाओ निद्धंधस ! धम्मकज्जेसु ॥१२८॥ [यदि जानासि पापकर्म सम्यग् दु:खानां कारणं जीव ! । 15 तथापि हि तव प्रमादो निर्लज्ज ! धर्मकार्यषु ॥] व्याख्या । हे 'निद्धंधस' निर्लज्ज आत्मन् ! यदि पापकर्म भावकर्मरोगममुं सम्यग् दुःखानां जन्मजरामरणादीनां कारणं हेतुं जानासि, 'तह वि हु' तथापि खलु तव प्रमादोऽनादरः । केषु ? धर्मकार्येषु सत्क्रियासु । तास्तु सम्प्रदायगम्याः, तथाहि - 20 "केशोत्तारणमल्पमल्पमरसं निर्व्यञ्जनं भोजनं । निद्रावर्जनमह्नि मज्जनवेधित्यागश्च भोगोज्झनम् ॥ [ ] पानं संस्कृतपाथसामविरतं येषां किलेत्थं क्रियास्तेषां स्फुटमयं पुष्टोऽपि हि क्षीयते" ॥ [ ] इति ॥१२८॥
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy