SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ 10 भावनाद्वारम्] [६२५ स्यनुध्यायसि ? अजागलस्तनप्रासवनमिवार्थकमेवेदमिति भावः । तर्हि जर्जरितात्मकार्यसंधानविधावुपायः कः स्याद् ? इत्याशङ्क्याह-'धम्मेणं ति' 'चिय ति' अवधारणे धर्मेण जिनप्रणीताचारेण सर्वाणि-ऐहिकामुष्मिकाणीति भावः कार्याणि कृत्यानि सज्जानि प्रगुणानि भग्नान्यप्यस्थीनीव सर्पिषा संनद्धानि भवन्ति, यदुक्तमस्माभिः "कल्पद्रुमो दुमः सोऽपि कामदुधापि सा । दृषच्चिन्तामणिः सोऽपि विनैतं धर्ममङ्गिनाम्" ॥ [ ] अपि च । "का कामधेनुरिह कश्चिन्तामणिरपि च कल्पशाखी कः । सर्वाण्यमूनि भुवने पर्यायवांसि धर्मस्य" ॥ [ ] इति ॥१२६॥ . भमिहिसि भवम्मि निग्गुण ! जम्मजरामरणपरवसो जीव !। न कया कया वि तुमए जिणवययरसायणे तण्हा ॥१२७॥ [भ्रमिष्यसि भवे निर्गुण ! जनजरामरणपरवशो जीव ! । न कृता कदापि त्वया जिनवचनरसायने तृष्णा ॥] व्याख्या । हे जीव । नितरां गतो विनष्टो गुणः संज्ञानरूपो यस्य स तथा तस्य संबोधनं, भ्राम्यसि तैलिकवृषभ इव च्छन्नदर्शनः पर्यटसि । किम्भूतः सन् ? 'जम्मजरामरणपरवसो' जन्म च जरा च मरणं च जन्मजरामरणानि तैः क्रियासमभिहारप्रवर्तमानैः परवशः परायत्तः सन् । कथम् ? इत्याह-'तुमए तण्हा न कयावि कया' त्वया तृष्णा रुचिर्न कदापि कृता । क्व ? 'जिणवयणरसायणे' जिनानाम- 20 हतां वचनं सम्यक्त्वमूलमहिंसादिव्रतानुष्ठानरूपं शासनं तदेव रसायनम् अजरामरत्वदायि महौषधं तत्तथा। आयुर्वेदोक्तं रसायनमन्यत् फल्गुवल्गितमेव, एतज्जिनवचनरसायनं त्वजरामरत्वाद्वैतवाहि तस्मिन् । अन्यत्तु रसायनमनुभुतं सदजरामरत्वं कुर्याद् न वा, अस्मिज्जिनवचनरसायने त्वनुभवस्य किमुच्यते, तृष्णापि, पुण्डरीकादीनामिवाजरामरत्वहेतु : । तच्च सम्प्रदायगम्यम्, तथाहि 15 25.
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy