________________
६२४]
[विवेकमञ्जरी
"दुर्गतौ सृताज्जन्तून् यस्माद् धारयते ततः ।
धत्ते चैतान् शुभे स्थाने तस्माद् धर्म इति स्मृतः" ॥ [ ] तस्याचारं सुष्ठ आख्यातीति धर्माचार्यः सैष दुर्लभो दुष्प्रापः । चः पूर्वभावनापेक्षया समुच्चये । यः किम् ? 'जो साहइ जिणधम्म' यो जिनधर्मं जीवदया5 त्मकं कथयति । केषाम् ? 'जीवाण' जीवानां प्राणिनाम् । किंविशिष्टानाम् ? 'मोहमूढाण' मोहेन मिथ्यात्वमोहनीयेन कर्मणा मूढा हेयोपादेशविवेकविकलास्ते तथा तेषाम् । केषामिव किम् ? 'अंधाण व मग्गसंचार' स्पष्टम् ॥१२४॥
धम्मायरिएण विणा जाणंति न मोहनिग्गहोवायं । धम्माभिमुहा वि पुणो पुणो वि जीवा भमंति भवे ॥१२५॥ [धर्माचार्येण विना जानन्ति न मोहनिग्रहोपायम् ।
धर्माभिमुखा अपि पुनः पुनरपि जीवा भ्रमन्ति भवे ॥] व्याख्या । धर्माचार्येण विना जीवा मोहनिग्रहोपायं न जानन्ति । ततः किं स्याद् ? इत्याह-'पुणो पुणो वि भमंति भवे' भवे संसारे पुनः पुनरपि भ्राम्यन्ति । किमधर्माभिमुखाः ? इत्याह-'धम्माभिमुहा वि' धर्माभिमुखा अपि तामल्या15 दिवत् तत्त्वबहिर्भूताः प्रभूताज्ञानकष्टपटिष्ठा अपि स्वल्पफलभाक्त्वेन न मुक्तिमाप्नुवन्तीति भावा ॥१२५॥ अथ गाथाचतुष्कोण धर्ममहिमोत्कीर्तनेन स्वजीवं बोधयन्नाहरे जीव ! कह णु चिंतसि चिंतामणिकामधेणुकप्पतरू । धम्मेणं चिय सव्वाई हुंति कज्जाइं सज्जाइं ॥१२६॥ [रे जीव ! कथं नु चिन्तयसि चिन्तामणिकामधेनुकल्पतरवः ।
धर्मेणैव सर्वाणि भवन्ति कार्याणि सज्जानि ॥] व्याख्या । 'रे' इत्यामन्त्रणार्थाभिद्योतकं पदमिह महदज्ञानतासूचकम् । जीव आत्मन् ! 'नु' इति वितर्के । कथं चिन्तामणि-कामधेनु-कल्पतरून् चिन्तय
20