SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ भावनाद्वारम्] [६२३ व्याख्या । अज्ञानेन जडतया, कुसङ्गेन मिथ्यादृष्टिसंसर्गेण, चः समुच्चये, 'कत्थ वि' क्वापि व्रतादिप्राप्तावपि 'कुमयवासणाए य' चः पुनरर्थे, कुत्सितं मतं द्वादशाङ्गीतः पदाक्षरादेरप्यन्यथा प्ररूपणं कुमतम्, यदाहु:“पयमक्खरं पि एक्कं जो न रोएइ सुत्तनि४ि । सेसं रोयंतोऽवि हु मिच्छाद्दिट्ठी मुणेयव्वो" ॥ [ र.स./५०४] अपि च, आ सुधर्मस्वाम्यविच्छिन्नगुर्वाज्ञाप्रवर्तमानगणभृत्परम्पराभिरशठाभिराचीर्णविधेर्विप्रतिपत्तिकरणं कुमतम्, यदाहुः"आयरियपरंपरेणं समागयं जो य छेयबुद्धीए । कोवेइ छेयवाई जमालिनासं स नासिज्जा" ॥ [ ] एतदादिरूपस्य तस्य वासना मिथ्याभिनिवशमतिस्तया, 'दुलहा भवम्मि बोही' 10 भवेऽस्मिन् संसारे बोधिर्जिनधर्मावाप्तिर्दुर्लभा । केषाम् ? 'सत्ताण' सत्त्वानां प्राणिनाम् । किंविशिष्टानाम् ? 'विसयपसत्ताण' विषया इन्द्रियार्थास्तेषु प्रसक्ता निबद्धवृत्तयस्तेषामिति ॥१२३॥ अथ द्वादशी स्वाख्यातधर्मभावनामाहअइदुल्लहो य धम्मायरिओ जीवाण मोहमूढाण । जो साहइ जिणधम्मं अंधाण व मग्गसंचारं ॥१२४॥ [अतिदुर्लभश्च धर्माचार्यो जीवानां मोहमूढानाम् । यः कथयति जिनधर्ममन्धानामिव मार्गसंचारम् ॥] व्याख्या । दुर्गतौ नरक-तिर्यग्लक्षणायां पतन्तो ये प्राणिनस्तेषां धरणाद् हेतोर्धर्मः, यद्वा, धत्ते नरसुरमोक्षस्थानेषु जन्तूनिति निरुक्ताद् धर्मः यदाह 20 १. पदमक्षरमप्येकं यो न रोचयति सूत्रनिर्दिष्टम् । शेषं रोचयन्नपि मिथ्यादृष्टितिव्यः ॥ २. आचार्यपारम्पर्येण समागतं यश्च च्छेदबुद्ध्या । प्ररूपयति च्छेदवादी जमालिनाशं स नश्येत् ।
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy