SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ ६२२] [विवेकमञ्जरी [चतुर्दशरज्जुप्रमाणे लोके स्थानमाप तिलतुषसमानम् । तन्नास्ति यत्र जीवा न च प्राप्ता जन्ममरणानि ॥] व्याख्या । लोके जगति तिलतुषसमानमपि स्थानं तद् नास्ति यत्र जीवाः प्राणिनो जन्ममरणानि न च प्राप्ता नाधिगतवन्तः । किंविशिष्टे लोके ? चतुर्दश5 रज्जुप्रमाणे, एकोद्देशेन लोकप्रमाणस्योपलक्षणमात्रमेवेदम् । रज्जुसज्ञापि संप्रदायगम्या, तथाहि"कश्चिल्लोकाग्रमारुह्य देवो दिव्यानुभावतः । श्रितं भारसहसेण लोहगोलमधः क्षिपेत् ॥१॥ [ ] स गोलो निपतन् मासैः षड्भिर्यावत् खमाक्रमेत् । तावता जायते रज्जुरेकेति कथितं जिनैः ॥२॥ [ ] लोकाग्रादप्रतिष्ठानतलं यावच्चतुर्दश । रज्जवोऽत्र पुनस्तिर्यक् सप्तोज़ क्रमहानितः ॥३॥ [ ] भूतले रज्जुरेकास्ति तदूर्ध्वं क्रमवृद्धितः । पञ्च पञ्चमकल्पे स्युस्तदूर्ध्वं क्रमहानितः ॥४॥ [ ] 15 एका सिद्धिशिलासीम्नि रज्जः, संपिण्डितास्त्विमाः ।। शतानि त्रीणि लोके त्रिचत्वारिंशच्च कीर्तिताः ॥५॥ [ ] एतत्प्रमाणं लोकेऽत्र स्थानं तन्नास्ति किञ्चन । यत्र जीवा न जन्मानि मरणानि च लेभिरे" ॥६॥ [ ] इति ॥१२२॥ 20 अथ बोधिभावनामाह अन्नाणेण कुसंगेण य कत्थ वि कुमयवासणाए य । दुलहा भवम्मि बोहि विसयपसत्ताण सत्ताण ॥१२३॥ [अज्ञानेन कुसङ्गेन च कुत्रापि कुमतवासनाया च । दुर्लभो भवे बोधिविषयप्रसक्तानां सत्त्वानाम् ॥]
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy