SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ भावनाद्वारम्] [६२१ व्याख्या । धर्मश्चाधर्मश्च धर्माधर्मों, पुद्गलश्च जीवश्च आकाशश्च पुद्गलजीवाकाशाः पञ्च सुप्रसिद्धा जिनसमये विदिताः, तथाहि"स्वयं गन्तुं प्रवृत्तेषु जीवाजीवेषु सर्वतः ।। सहकारी भवेद् धर्मः पानीयमिव यादसाम् ॥१॥ [ ] जीवानां पुद्गलानां च प्रपन्नानां स्वयं स्थितिम् । अधर्मः सहकार्येष यथा छायाध्वयायिनाम् ॥२॥ [ ] पुद्गलाः स्युः स्पर्शरसगन्धवर्णस्वरूपिणः । तेऽणुस्कन्धतया द्वेधा तत्राबद्धाः किलाणवः ॥३॥ [ ] बद्धाः स्कन्धा गन्धशब्दसूक्ष्मस्थूलाकृतिस्पृशः । अन्धकारातपोद्योतभेदच्छायात्मका अपि ॥४॥ युग्मम् ॥ [ ] एकाक्षाः स्थूलसूक्ष्माख्याः पञ्चाक्षाः संश्यसंज्ञिनः । विकलाक्षाश्च पर्याप्ता अपर्याप्ताश्चतुर्दश ॥५॥ [ ] जीवो जिनोदितैरेभिर्भेदौभिन्नोऽत्र संसृतौ ।। ज्ञेयोऽयं रक्षणीयोऽयं मान्योऽयं तत्त्वसंपदः ॥६॥ युग्मम् ॥ [ ] सर्वगं स्वप्रतिष्ठं स्यादाकाशमवकाशदम् । लोकालोकौ स्थितं व्याप्य तदनन्तप्रदेशभाक्' ॥७॥ [ ] इति पञ्चैते 'अत्थिकाया' अस्तिकायाः 'तम्मयमेयं वियाणाहि' तैरस्तिकायैः स्थित्युत्पत्तिव्ययात्मकैः कालेन सह द्रव्यापरनामभिर्निर्वृतं तन्मयमेतं लोकं विश्वं विजानीहि, यदुक्तम् "कटिस्थकरवैशाखस्थानकस्थनराकृतिम् । दव्यैः पूर्णं स्मरेल्लोकं स्थित्युत्पत्तिव्ययात्मकैः" ॥ [ यो.शा./४/१०३] इति ॥१२१॥ चउदसरज्जुपमाणे लोए ठाणं पि तिलतुससमाणं । तं नत्थि जत्थ जीवा न य पत्ता जम्ममरणाइं ॥१२२॥ 15 20
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy