SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ ६२०] [विवेकमञ्जरी [एतानि यो निरुणद्धि प्रतिषेधति स तदत्र प्रविशत् । यच्च पुराणं तदपि हि क्र मेण शोषयत्यप्रमत्तः ॥] व्याख्या । य एतानि पूर्वोदितानि सप्तदशाश्रवद्वाराणि निरुणद्धि पिधत्ते, स तदत्र जीवतडागे प्रविशत् कर्मजलं प्रतिषेधयति, यच्च पुराणं पुरातनमग्रे प्रविष्टं 5 तदपि क्रमेण मन्दं मन्दं, युद्धा विशुद्धध्यानमया:तेजसेति भावः 'सोसेइ' शोषयति । किम्भूतः ? 'अपमत्तो अप्रमत्तोऽप्रमद्वर इति ॥११९ अथ निर्जराभावनामाहबारसभेयविसिटुं सब्भितरबाहिरो जिणुट्ठिो । ताविओ तवो विसुद्धो कम्ममसेसं पि निज्जड् ॥१२०॥ [द्वादशभेदविशिष्टं साभ्यन्तरबाह्यं जिनोद्दिष्टम् । तप्तं तपो विशुद्धं कर्माशेषमपि निर्जरयति ॥] व्याख्या । तपोऽशेष समस्तं बद्ध-स्पृष्ट-निधत्त-निकाचितादिचतूरूपं कर्म निर्जरयति परिशाटयति । किंविशिष्टं तपः ? 'बारसभेयविसिट्ठो' नपुंसकलिङ्गस्यापि तप:शब्दस्यात्र प्राकृतत्वाद् बाहुल्यात् पुंलिङ्गता, द्वादशभिर्भेदैविशिष्टं प्रधानं 15 तत्तथा । अत एव 'सब्भितरबाहिरो' आभ्यन्तरेण भेदषट्केन सह वर्तते साभ्यन्तरं तच्च तद् बाह्यं च तत्तथा । पुनरपि किंविशिष्टम् ? 'जिणुद्दिट्टो' जिनेन भगवता वीतरागेणोपदिष्टं तत्तथा। किं स्मृतमात्रमेवैवंविधं तपः कर्माशेषं निर्जरयतीत्यशङ्कयाह-'तविओ' तप्तम् आचीर्णम्। किंविशिष्टम् ? 'विसुद्धो' विशेषण मनोवाक्कायैः शुद्धं निरतिचारमिति ॥१२०।। 20 अथ गाथायुगेन लोकभावनामाह धम्माहम्मा पुग्गलजीवाकासा य पंच सुपसिद्धा । अत्थिकाया तम्मयमेयं लोयं वियाणाहि ॥१२१॥ [धर्माधर्मी पुद्गलजीवाकाशाश्च पञ्च सुप्रसिद्धाः । अस्तिकायास्तन्मयमेतं लोकं विजानीहि ॥]
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy