________________
10
भावनाद्वारम्]
[६१९ पुनः किंविशिष्टम् ? 'असुइरसाहारबद्धसंठाणं' अशुचयो मातृभुक्तपीतान्नपयसो रसा अशुचिरसास्तेषामाहारस्तेन बद्धं संस्थानमङ्गोपाङ्गादि यस्य तत्तथा । अपि चोक्तम्
"मातृभुक्तान्नपानोत्थरसं नाडीक्रमागतम् ।
पायं पायं विवृद्धः सन् शौचं मन्येत कस्तनोः ?" ॥ [ ] पुनरपि किंविशिष्टम् देहम् ? 'असुईण जम्मभूमी' अशुचीनां रसासृग्मांसादीनां जन्मभूमिः उत्पत्तिस्थानम् । यदुक्तम्"रसासृग्मांसमेदोऽस्थिमज्जाशुक्रान्त्रवर्चसाम् ।
अशुचीनां पदं कायः शुचित्वं तस्य तत्कुतः ?" ॥ [ यो.शा./४/७२] इति ॥११६॥ अथ गाथायुगेनाश्रवभावनामाहपंचेंदियाइं चउरो तह कसाया य तिन्नि दंडा य । पंचप्पाणिवहाई सत्तरसासवदुवाराइं ॥११७॥ एएहि मुक्कलेहिं जीवतलायं समंतओ एयं । निच्चं आऊरिज्जइ कम्ममहावारिपूरेण ॥११८॥
[पञ्चेन्द्रियाणि चत्वारस्तथा कषायाश्च त्रयो दण्डाश्च । पञ्च प्राणिवधादयः सप्तदशाश्रवद्वाराणि ॥ एतैर्मुत्कलैर्जीवतडागं समन्तत एतत् ।
नित्यमापूर्यते कर्ममहावारिपूरेण ॥] स्पष्टे ॥११७॥११८॥ अथ संवरभावनामाह'एयाइं जो निरंभइ पडिसेहइ सो तमित्थ पविसंतं । जं च पुराणं तं पि हु कमेण सोसेइ अपमत्तो ॥११९॥