________________
६१८]
[विवेकमञ्जरी नित्योऽच्छेद्याभेद्यरूपः स्वभावः प्रकृतिर्यस्येति स तथा । एतयोरनित्यनित्ययोस्तर्हि संबन्धः कथमभूद् ? इत्याह-'कम्मवसा' कर्मवशात् नामानुपूर्वीगत्यायुःकर्मपारवश्यात् । 'निब्बंधो इत्थ को तम्हा' तस्मादत्र शरीरे को निर्बन्धः ? कः प्रतिबन्ध इति ॥११४॥
कह आयं कह चलियं तुमं पि कह आगओ कहं गमिही । अन्नुन्नं पि न याणह जीव ! कुडुंब कओ तुज्झ ? ॥११५॥ [कथमागतं कथं चलितं त्वमपि कथमागतः कथं गमिष्यसि ।
अन्योन्यमपि न जानीथो जीव ! कुटुम्बं कुतस्तव ? ॥] व्याख्या । हे जीव ! 'तुज्झ' तव तावकमिति भावः ‘कओ कुटुंब' कुतः 10 कस्माद् हेतोः कुटुम्बम् । कथम् ? इत्याह-'अन्नुन्नं पि न याणह' अपीति विस्मये, अन्योन्यं न जानीथः परस्परं न वित्थः । कोऽत्र भावः ? त्वं कुटुम्बं न जानासि । कीदृग् ? 'कह आयं' कुत आगतम्, 'कह चलियं' कुत्र चलितं क्व यास्यतीत्यर्थः । त्वमपि कुटुम्बेन न ज्ञायसे । कीदृशः ? 'कह आगओ' कुत
आगतः, 'कहं गमिही' कुत्र गमिष्यसीति ॥११५॥ 15 अथाशुचित्वभावनामाह
असुइसमवायजायं असुइरसाहारबद्धसंठाणं । असुईण जम्मभूमी तं देहं कह सुई होइ ? ॥११६॥ [अशुचिसमवायजातमशुचिरसाहारबद्धसंस्थानम् ।
अशुचीनां जन्मभूमिस्तद् देहं कथं शुचि भवति ? ॥] 20 व्याख्या । तद् देहं कथं केन प्रकारेण शुचि भवति ? अपि तु न
केनापीत्यर्थः । शुचित्वे तस्यासाध्यतां विशेषणैराह-किंविशिष्टं देहम् ? 'असुइसमवायजायं' अशुचिनोः शुक्र-शोणितयोः समवायः संयोगस्तस्माज्जातं निष्पन्न तत्तथा, यदुक्तम्
"शुक्रशोणितसंभूतो मलनिस्यन्दवर्धितः । ____ गर्भे जरायुसंछन्नः शुचिः कायः कथं भवेत् ?" ॥ [ ]