________________
भावनाद्वारम्]
[६१५
अथ गाथायुगेन संसारभावनामाहतह लालियं पि तह पालियं पि अंते मुहं विकूणेइ । फरिसंते पि कुडुंबं विडंबणा का न संसारे ? ॥१०६॥ [तथा लालितमपि तथा पालितमप्यन्ते मुखं विकूणयति ।
स्पृशदापि कुटुम्बं विडम्बना का न संसारे ? ॥] व्याख्या । संसारे का न विडम्बना? को न विगोपकः ? कथम् ? इत्याहअन्ते वार्धक्ये 'अतीसारादिरोगाभिभूतं स्वामिनम्' इति गम्यम्, 'फरिसंतं पि' स्पृशदपि कुटुम्बं कर्तृ मुखं विकूणयति वक्रीकरोति । यदि न तस्य स्वार्थः कोऽप्येयन पूरितो भविष्यति ? इत्याह-'तह लालियं पि' तथा तेन प्रकारेण यथेप्सितवसनाशनशयनीयाभरणताम्बूलविलेपनमाल्यादिना लालितमपि; न 10 केवलमित्थम्, 'तह पालियं पि' तथा शीतवातातपक्षुत्तृषारोगाद्यातङ्केभ्यः शुभोदर्कविधानेन पालितमपि परित्रातमपीति ॥१०६॥ जणणी जायइ जाया जाया माया पिया य पुत्तो य । अणवत्था संसारे कम्मवसा सव्वजीवाणं ॥१०७॥ [जननिर्जायते जाया जाया माता पिता च पुत्रश्च ।
अनवस्था संसारे कर्मवशात् सर्वजीवानाम् ॥] स्पष्टा ॥१०७॥ अथ गाथाषट्केनैकत्वभावनामाहएगो बंधइ कम्मं एगो धणहरणमरणवसणाई । विसहइ भवम्मि भमडइ एगु च्चिय कम्मवेलविओ ॥१०८॥ 20
[एको बध्नाति कमैको धनहरणमरणव्यसनानि ।
विषहते भवे भ्राम्यत्येक एव कर्मविप्लावितः ॥] व्याख्या । 'अकृत्यशतचतुरो नरः कुटुम्बार्थमर्थमर्जयन्' इत्यध्याहारः, एकः कर्म
15