SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ 5 10 15 ६१४] [जीवो व्याधिविलुप्तः शफर इव निर्जले चपलायते । स्वजनो विमनाः पश्यति कः शक्तो वेदनाविगमे ? ॥] स्पष्टा ॥१०२॥ मा जासु जीव ! तुमं पुत्तकलताई मज्झ सुहहेऊ । निउणं बंधणय संसारे संसरंताणं ॥ १०३॥ [मा जानीहि जीव ! त्वं पुत्रकलत्रादिर्मम सुखहेतुः । निपुणं बन्धनमेतत् संसारे संसरताम् ॥] स्पष्टेयमपि ॥१०३॥ विसमिव मुहे महुरा परिणामनिकामदारुणा विसया । कालमणतं भुत्ता अज्ज वि मुत्तुं न किं जुत्ता ? ॥१०४॥ [विषमिव मुखे मधुराः परिणामनिकामदारुणा विषयाः । कालमनन्तं भुक्ता अद्यपि मोक्तुं न किं युक्ताः ? |] सुगमेयम् ॥१०४॥ विसयरसासवमत्तो जुत्ताजुत्तं न याई जीवो । झूरइ कलुणं पच्छा पत्तो नरयं महाघोरं ॥ १०५ ॥ [ विवेकमञ्जरी [विषयरसासवमत्तो युक्तायुक्तं न जानाति जीवः । खिद्यते करुणं पश्चात् प्राप्तो नरकं महाघोरम् ॥] व्याख्या । विषयरस इन्द्रियार्थास्वाद एव आसवो मद्यं विषयरसासवस्तेन मत्तः क्षीवः सन् जीवो भक्ष्याभक्ष्यपेयापेयगम्यागम्यादिरूपं युक्तायुक्तं न जानाति । 20 'पच्छा झूरइ' पश्चात् खिद्यते 'कलुणं' करुणं दीनं यथा भवतीति क्रियाविशेषणमिदम् । किम्भूतः 'पत्तो नरयं' प्राप्तो नरकम् । किंविशिष्टम् ? 'महाघोरं' अतिभयङ्करमिति ॥१०५॥
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy