________________
भावनाद्वारम्]
[६१३
10
तं कत्थ बलं तं कत्थ जुव्वणं अंगचंगिमा कत्थ ? । सव्वमणिच्चं पिच्छह नटुं दिटुं कयंतेण ॥१००॥ [तत्कुत्र बलं तत्कुत्र यौवनमङ्गचङ्गिमा कुत्र ? ।
सर्वमनित्यं पश्यत नष्टं दृष्टं कृतान्तेन ॥] स्पष्टेयमपि ॥१००॥ अथ गाथापञ्चकेनाशरणभावनामाहघणकम्मपासबद्धो भवनयरचउप्पहेसु विविहाओ। पावइ विडंबणाओ जीवो को इत्थं सरणं से ? ॥१०१॥
[घनकर्मपाशबद्धो भवनगरचतुष्पथेषु विविधाः ।
प्राप्नोति विडम्बना जीवः कोऽत्र शरणं तस्य ? ॥] व्याख्या । कर्माणि ज्ञानावरणादीन्येव पाशाः कर्मपाशाः, घनाश्चैते तथा, तैर्बद्धो नियन्त्रितः सन् 'भवनयरचउप्पहेसु' भवः संसार एव चतुष्कषायगोपुरविराजमानं विशालविषयवासनाशालवलयसुस्थितं मिथ्यात्वनृपाधिष्ठितं चतुरशीतिलक्षयोनिभवनं कुमतिविलासतलारक्षं चतुर्ध्यानमयवर्णप्रकृतिपौरप्रकरं नगरं तस्य चत्वारो देव-नर-तिर्यग्-नरकगतिनामानः पन्थानस्ते तथा तेषु 'विविहाओ' विविधा 15 अनेकरूपाः ‘पावई' प्राप्नोति 'विडंबणाओ' विडम्बनाः, देवत्वे किल्बिषित्वाभियोगिकत्वपद्धिदर्शनेाविषादक्रोधलोभासन्नच्यवनक्षोभाद्याः, मनुजत्वे च चिन्तासंतापस्वामिशापस्वजनमरणधनहरणजराज्वरादिरोगानिष्टसंप्रयोगाभीष्टविप्रयोगाद्याः, तिर्यक्त्वे च कशाङ्कशप्राजनघातवातातपक्षुत्तृषासहनभारवहनरूपाः, नारकत्वे च च्छेदनभेदनतप्तत्रपुपानशाल्मलीवृक्षालिङ्गनवैतरणीतरणासिपत्रवन- 20 विचरणाद्याः, इत्येता घनकर्मपाशबद्धा विडम्बनाः । कः प्राप्नोति ? इत्याह-'जीवो' जीवः प्राणी । 'को इत्थ सरणं से' तस्य कः शरणमिह ? न कोऽपीति तात्पर्यम् ॥१०१॥
जीवो वाहिविलुत्तो सफरो इव निज्जले तडप्फडइ । सयणो विमणो पिच्छइ को सक्को वेयणाविगमे ? ॥१०२॥ . 25