SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ 5 15 ६१२] 20 अथ भावनाद्वारं प्रस्तुवन्नाह— चउसरणं पडिवन्नो जीवो संसारकज्जनिव्विन्नो । भावेइ भावणाओ अणिच्चआईओ सव्वाओ ॥ ९८ ॥ [चतुः शरणं प्रतिपन्नो जीवः संसारकार्यनिर्विण्णः । भावयेद् भावना अनित्यतादीः सर्वाः ॥ ] व्याख्या । जीवो मुक्तिगमनयोग्यो जन्तुः 'भावेइ' भावयति संविग्नेन मनसाऽनुध्यायति । काः कर्मतापन्नाः ? 'भावणाओ' भावनाः । किंरूपा: ? 'अणिच्चयाईओ' अनित्यताद्याः । किं द्वे तिस्र ? इत्याह- 'सव्वाओ' सर्वा द्वादशापीति भावः । इह त्रिष्वपि कर्मपदेषु “ स्त्रियामुदौतौ वा " [ है ० प्रा० ३ | 10 २७] इति प्राकृतलक्षणात् शसः स्थाने ओत् । किंविशिष्टोऽसौ ? 'चउसरणं पडिवन्नो' चतुर्णामर्हदादीनां शरणं चतुःशरणम् उपलक्षणमेवेदं, सम्यग्गुणानुमोदना दुष्कृतगर्हाऽप्यत्र ज्ञेया, तत् प्रतिपन्नस्तदैकतामानस इति भावः । पुनः किंविशिष्टः ? ‘संसारकज्जनिव्विन्नो' संसरणं संसारः पुनः पुनर्जन्मपरम्परा सैव कर्मपरतन्त्रस्य जन्तोः कार्यं ततो निर्विण्ण उद्विग्नः, यदुक्तम्— “जरामरणदौर्गत्यव्याधयस्तावदासताम् । जन्मैव किं न धीरस्य भूयो भूयस्त्रपावहम् ? " ॥ [ ] इति ॥९८॥ अथानित्यताभावनां गाथायुगेनाह विहवो सज्जणसंगो विसयसुहाइं विलासललियाइं । नलिनीदलग्गघोलिरजललवपरिचंचलं सव्वं ॥९९॥ [ विवेकमञ्जरी [विभवः स्वजनसङ्गो विषयसुखानि विलासललितानि । नलिनीदलाग्रघूर्णमानजललवपरिचञ्चलं सर्वम् ॥] स्पष्टा, परं 'घोलिर' इति घूर्णमानपर्यायः ॥ ९९||
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy