________________
5
15
६१२]
20
अथ भावनाद्वारं प्रस्तुवन्नाह—
चउसरणं पडिवन्नो जीवो संसारकज्जनिव्विन्नो । भावेइ भावणाओ अणिच्चआईओ सव्वाओ ॥ ९८ ॥
[चतुः शरणं प्रतिपन्नो जीवः संसारकार्यनिर्विण्णः । भावयेद् भावना अनित्यतादीः सर्वाः ॥ ]
व्याख्या । जीवो मुक्तिगमनयोग्यो जन्तुः 'भावेइ' भावयति संविग्नेन मनसाऽनुध्यायति । काः कर्मतापन्नाः ? 'भावणाओ' भावनाः । किंरूपा: ? 'अणिच्चयाईओ' अनित्यताद्याः । किं द्वे तिस्र ? इत्याह- 'सव्वाओ' सर्वा द्वादशापीति भावः । इह त्रिष्वपि कर्मपदेषु “ स्त्रियामुदौतौ वा " [ है ० प्रा० ३ | 10 २७] इति प्राकृतलक्षणात् शसः स्थाने ओत् । किंविशिष्टोऽसौ ? 'चउसरणं पडिवन्नो' चतुर्णामर्हदादीनां शरणं चतुःशरणम् उपलक्षणमेवेदं, सम्यग्गुणानुमोदना दुष्कृतगर्हाऽप्यत्र ज्ञेया, तत् प्रतिपन्नस्तदैकतामानस इति भावः । पुनः किंविशिष्टः ? ‘संसारकज्जनिव्विन्नो' संसरणं संसारः पुनः पुनर्जन्मपरम्परा सैव कर्मपरतन्त्रस्य जन्तोः कार्यं ततो निर्विण्ण उद्विग्नः, यदुक्तम्—
“जरामरणदौर्गत्यव्याधयस्तावदासताम् ।
जन्मैव किं न धीरस्य भूयो भूयस्त्रपावहम् ? " ॥ [ ]
इति ॥९८॥
अथानित्यताभावनां गाथायुगेनाह
विहवो सज्जणसंगो विसयसुहाइं विलासललियाइं । नलिनीदलग्गघोलिरजललवपरिचंचलं सव्वं ॥९९॥
[ विवेकमञ्जरी
[विभवः स्वजनसङ्गो विषयसुखानि विलासललितानि । नलिनीदलाग्रघूर्णमानजललवपरिचञ्चलं सर्वम् ॥] स्पष्टा, परं 'घोलिर' इति घूर्णमानपर्यायः ॥ ९९||