________________
[६११
दुष्कृतगर्हाद्वारम्] अथ लब्धबोधे वस्योत्कर्षमाहनाणदंसणचारित्तरयणत्तयभूसिओ। अदूसिओ य दोसेहिं जीवो होइ न दुक्खिओ ॥९७॥ [ज्ञानदर्शनचारित्ररत्नत्रयभूषितः ।
अदूषितश्च दोषैर्जीवो भवति न दुःखितः ॥] व्याख्या । जीवः प्राणी दुःखितो दुःखपात्रं न भवति । किंरूपः सन् ? 'नाणदंस-ण त्ति' ज्ञानं जीवाजीवाश्रवसंवरनिर्जराबन्धमोक्षादिसप्ततत्त्वपरिज्ञानं, दर्शनं सम्यक्त्वम्, चारित्रं सर्वसावद्ययोगविरतिः, एतेषामेव रत्नानां त्रयं तत्तथा तेन भूषितोऽलङ्कृतः । न केवलमित्थं, 'अदूसिओ य' अदूषितश्च । कैः ? 'दोसेहिं' दोषै रागा-दिभिः । अपि चोक्तमस्माभिः
"जन्तो रत्नत्रयी यस्य चेतोग्रन्थावमूल्यका । सेवाहेवाकिनस्तस्य देवाः के वा, न कि परे ?" ॥ [ ]
॥ इत्याचार्यश्रीबालचन्द्रविरचितायां श्रीविवेकमञ्जरीवृत्तौ
दुष्कृतगर्हाविवरणं नाम तृतीयः परिमलः ॥
चण्डाश्वचण्डकरमण्डलगोलकाभ्यां विक्रीडतो नभसि कालकुमारकस्य । 15 छायापथस्तदयनश्रियमेति यावत् तावज्जयं कलयतादिह जैत्रसिंहः ॥१॥