SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ ६१०] [विवेकमञ्जरी अथ सर्वयोगपरित्यागमाहतह सव्वदव्वजोगो सरीरजोगो य कम्मसंजोगो । सव्व इमे संजोगा जावज्जीवाइ वोसिरिया ॥१४॥ [तथा सर्वद्रव्ययोगः शरीरयोगश्च कर्मसंयोगः ।। ___ सर्व इमे संयोगा यावज्जीवं व्युत्सृष्टाः ॥] व्याख्या । यथा पूर्वोक्तं सावद्यमशेषं व्युत्सष्टं तथा सर्वाणि सचित्ताचित्तानि च तानि द्रव्याणि च भोगोपभोगोपयोगीनि वस्तूनि सर्वव्याणि तैर्योगः सम्बन्धः स तथा । न केवलमेतत्, शरीरेण वर्तमानेनौदारिकेण योगः स तथा । चः समुच्चये। कर्मणां ज्ञानावरणादीनां संयोगः । सर्व इमे संयोगाः 'जावज्जीवाइ वोसिरिया' 10 यावज्जीवं, यावच्छब्दोऽवधारणे, जीवनं जीव इत्ययं क्रियाशब्दः प्राणधारणार्थः, ततश्च यावज्जीवनं तावद् व्युत्सृष्टा न मृत्योः परत इत्यर्थः ॥९४|| अथ गाथायुगेन पर्यन्ताराधनाविधिमुच्चार्य तत्फलमाहपच्चक्खाइ चउव्विहमाहारं जो पुणो निरागारं । अणुमोयइ सुकयाई आलोयइ पावकम्माइं ॥१५॥ 15 अंते जो संथारपव्वज्जं वा पवज्जइ धीरो । सो परलोए सुहिओ हवइ नरो लहइ पुण बोहिं ॥१६॥ [प्रत्याख्याति चतुर्विधमाहारं यः पुनर्निराकारम् । अनुमोदते सुकृतान्यालोचयति पापकर्माणि ॥ अन्ते यः संस्तारप्रवज्यां वा प्रव्रजति धीरः । 20 स परलोके सुखितो भवति नरो लभते पुनर्बोधिम् ॥] स्पष्टे ॥९५॥९६॥
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy