________________
दुष्कृतगर्हाद्वारम् ]
लाक्षामनःशिलानीलीघातकीटङ्कणादिनः ।
विक्रयः पापसदनं लाक्षावाणिज्यमुच्यते ॥७॥ [ यो.शा./३/१०७]
नवनीतवसाक्षौद्रमद्यप्रभृतिविक्रयः । द्विपाच्चतुष्पाद्विक्रय वाणिज्यं रसकेशयोः ॥ ८ ॥ [ यो.शा. / ३ / १०८ ]
विषास्त्रहलयन्त्रायोहरितालादिवस्तुनः ।
विक्रयो जीवितघ्नस्य विषवाणिज्यमुच्यते ॥ ९ ॥ [ यो.शा./३/१०९]
तिलेक्षुसर्षपैरण्डजलयन्त्रादिपीडनम् ।
दलतैलस्य च कृतिर्यन्त्रपीडा प्रकीर्त्तिता ॥ १०॥ [ यो.शा./३/११० ]
नासावेधोऽङ्कनं मुष्कच्छेदनं पृष्ठगालनम् । कर्णकम्बलविच्छेदो निर्लाच्छनमुदीरितम् ॥११॥ [ यो.शा./३/१११ ] सारिकाशुकमार्जारश्वकुर्कुटकलापिनाम् ।
पोषो दास्याश्च वित्तार्थमसतीपोषणं विदुः ॥ १२ ॥ [ यो.शा./३/११२ ]
अथ वल्लभेभ्योऽत्यतिवल्लभं वपुर्व्युत्सृजन्नाह -
जं असुइदुसि पि हु देहं बहु मन्नियं मए एयं । तं पि हु अंतिमऊसासेहिं तिकट्टु वोसिरियं ॥९३॥
[ ६०९
[यदशुचिदूषितमपि हि देहं बहु मतं मयैतत् । तदपि ह्यन्तिमोच्छ्वावसेषु त्रिकृत्वो व्युत्सृष्टम् ॥]
व्यसनात् पुण्यबुद्ध्या वा दवदानं भवेद् द्विधा ।
सरःशोष सरःसिन्धुहृदादेरम्बुसंप्लवः " ॥१३॥ [ यो.शा./३/११३] इत्येवम्प्रकराणि यानि विहितानि यत्तदोर्नित्यसम्बन्धात् तानि 'परिचत्ताई' 15 परित्यक्तानि । अन्यदपि मया त्यक्तम्, किम ? इत्याह- 'जं चिय मिच्छत्तवुड्ढकरं' यदेव मिथ्यात्ववृद्धिकरमिति ॥९२॥
5
स्पष्टा; परं 'तिकट्टु त्ति' त्रिकृत्वः मनोवचनकायैः । अपि च, ‘अंतिमऊसासेहिं' 'अन्तिमोच्छ्वासेषु' इति व्याख्येयम् ॥९३॥
10
20