SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ 5 15 ६०८ ] मोहंधेण य रइयं हलउक्खलमुसलपमुहमहिगरणं । तं वोसिरियं सव्वं तिविहेणं पाणिवहकरणं ॥ ९१ ॥ 20 [ मोहान्धेन च रचितं हलोदूखलमुशलप्रमुखमधिकरणम् । तद् व्युत्सृष्टं सर्वं त्रिविधेन प्राणिवधकरणम् ॥] स्पष्टा ॥९१॥ परिचत्ताइं पनरस कम्मादाणाइं जाई विहियाइं । अन्नं पि मए चत्तं जं चिय मिच्छत्तवुढिकरं ॥९२॥ - [ परित्यक्तानि पञ्चदश कर्मादानानि यानि विहितानि । अन्यदपि मया त्यक्तं यदेव मिथ्यात्ववृद्धिकरम् ॥] 10 व्याख्या । कर्मणां भवहेतूनामादानं ग्रहणं येभ्यस्तानि कर्मादानानि । कति ? ‘पनरस' पञ्चदश । यदाहुः श्रीहेमसूरयः "अङ्गारभ्राष्ट्रकरणं कुम्भायः स्वर्णकारिता । ठठारत्वेष्टकापाकाविति ह्यङ्गारजीविका ॥१॥ [ यो.शा./३/१०१] [ विवेकमञ्जरी छिन्नाच्छिन्नवनपत्र प्रसूनफलविक्रयः । कणानां दलनात् पेषाद् वृत्तिश्च वनजीविका ॥२॥ [ यो.शा. / ३ / १०२ ] शकटानां तदङ्गानां घटनं खेटनं तथा । विक्रयश्चेति शकटजीविका परिकीर्तिता ॥३॥ [ यो.शा./३/१०३] शकटोक्षलुलायोष्ट्रखराश्वतरवाजिना । भारस्य वहनादे वृत्तिर्भेवेद् भाटकजीविका ॥४॥ [ यो.शा./३/१०४] सरः कूपादिखननशिलाकुट्टनकर्मभिः । पृथिव्यारम्भसंभूतैर्जीवनं स्फोटजीविका ॥५॥ [ यो.शा./३/१०५ ] दन्तकेशनखास्थित्वग्रोम्णां ग्रहणमाकरे । त्रसाङ्गस्य वणिज्यार्थं दन्तवाणिज्यमुच्यते ॥६॥ [ यो.शा./३/१०६ ]
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy