________________
६०४]
[विवेकमञ्जरी 'निंदामि य' अकृत्यकारिणमिति निन्दामि आत्मसाक्षिकं शोचामि । चः समुच्चये । 'गरिहामि य' गर्हे परसाक्षिक जुगुप्से । चः पुनरर्थे । 'तह' तथा 'मिच्छा दुक्कडं मज्झ' मम मिथ्या दुष्कृतं भूयादिति ॥७८॥ अथेहभवसम्बन्धिनः क्षमयन्नाहपियमाइमायबंधवपुत्तेसु मित्तवग्गेसु । उवयारिसु अवयारिसु सव्वेसु वि खमणा मज्झ ॥७९॥ [प्रियमातृभ्रातृबान्धवपुत्रकलत्रेषु मित्रवर्गेषु ।
उपकारिष्वकारिषु सर्वेष्वपि क्षमणा मम ॥] स्पष्टा ॥७९॥ 10 अथ बाहुल्येनापरमपि जीवजातं समस्तमपि क्षमयन्नाह
खामेमि सव्वजीवे मज्झ सव्वे खमंतु ते । तेसु मज्झत्थभावो मे मित्ती व पारिणामिया ॥४०॥
[क्षमयामि सर्वजीवान्मां सर्वे क्षमन्तां ते । . ..
तेषु मध्यस्थभावो मे मैत्री वा पारिणामिकी ॥] 15 स्पष्टेयमपि, परं मध्यस्थभावः पितृमातृबन्धुसुहृदादिषूपकारिषु रागः, तथाऽप
कारिषु द्वेषः, तदुभयविप्रमुक्तत्वं 'भवतु' इति शेषः । अथवा मैत्री भवतु । सा च लौकिकी लोकोत्तरा च । आद्या प्रसिद्धा । लोकोत्तरा तु"मा कार्षीत् कोऽपि पापानि मा च भूत् कोऽपि दुःखितः ।
मुच्यतां जगदप्येषा मतिमैत्री निगद्यते" ॥ [यो.शा./४/११८] 20 सा च 'पारिणामिकी' इत्युच्यते ॥८०॥
तामेवाह
सुहिया आमरहिया धुयपावरया सुधम्मकम्मरया । दीहाऊ जिणमयन्नू हवंतु सव्वे वि इह जीवा ॥८१॥