SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ ६०२] [विवेकमञ्जरी 'वणस्सइकाया' वनस्पतिकाया भूरुहः - साधारणश्च प्रत्येका द्विप्रकारा महीरुहः । तत्र पूर्व बादराः स्युरुत्तरे सूक्ष्मबादराः ॥१॥[ ] .....सूक्ष्मासूक्ष्माः परे च्छिन्नप्ररोहाः समभङ्गकाः। ... अतन्तुत्वग्रसान्धिपर्वगुप्त्यादिलक्षणाः ॥२॥ [ ] अनन्तात्माश्रयैकाङ्गा पनकस्थेगावास्थुलाः । कन्दाङ्कुरनवोद्गच्छत्पर्णानास्थिफलानि च ॥३॥[ ] गुडूचीगुग्गुलीमुस्ताविरूढानि शतावरी । भूस्फोटो लवणदुत्वक्कुमारीकोमलाम्लिका ॥४॥ [ ] स्नुहीसूकरवल्ल्यश्च पल्यकोऽमृतवल्लरी । शैवलं शणपत्राणि निगोदा बादरा इति ॥५॥ [ ] प्रत्येकास्ते स्युरेकैकतनौ यत्रैककः प्रभुः । मूलपल्लवकाष्ठत्वक्पुष्पबीजफलादयः ॥७॥ [ ] 'तसकाइया य' त्रसश्चलः कायो तेषां ते त्रसकायास्त एव ते स्वार्थे के सति 15 त्रसकायकाः, चः समुच्चये, 'सव्वे वि' सर्वेऽपि चतुर्विधा अपीति भावः । तथा हि त्रसा द्वित्रिचतुष्पञ्चेन्द्रियत्वेन चतुर्विधाः । ‘इय छव्विहजीवनिकायलक्खणा' इत्यमुना प्रकारेण पूर्वोदितेन षड्जीवनिकायलक्षणाः षट्प्रकारजीवनिकायसंज्ञाः प्राणिनः । 'निग्गुणेण मए' निर्गुणेनाऽज्ञानिना मयेति ॥७४।७५।। चुलसीइलक्खसंखासु जीवजोणीसु परिभमंतेण । 20 तज्जिय वत्तिय दूमिय परिभाविया तह उवद्दविया ॥७६॥ निब्भच्छिय संघट्टिय विहडाविय पीलिया य वेलविया । परियाविया य तह जीवियाउ ववरोपिया चेव ॥७७॥ व्याख्या । 'मया' इति पूर्वसंबन्धः । किंविशिष्टेन ? 'परिभमंतेणं' परिभ्रमता संसरता। कासु ? 'जीवजोणीसु' जीवानामेकेन्द्रियादीनां योनयो जन्मस्थानानि
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy