________________
[६०१
दुष्कृतगर्हाद्वारम्]
तेउक्काया वणस्सइकाया तसकाइया य सव्वे वि । इय छव्विहजीवनिकायलक्खणा निग्गुणेण मए ॥७५॥ [देवनरतिर्यङ्नारकचर्तुगतिमार्गेषु परिभ्रमन्तश्च । तथा तेऽपि पृथिवीकाया दककाया वायुकायाश्च ॥ तेजस्काया वनस्पतिकायास्त्रसकायिकाश्च सर्वेऽपि ।
इति षड्विधजीवनिकायलक्षणा निर्गुणेन मया ॥] व्याख्या । किंस्वरूपा एते जीवाः ? 'परिभमंता य' परिभ्रमन्तः । चः समुच्चये। केषु ? 'देवनरतिरियनारयचउगइमग्गेसु' देवा भुवनपति-व्यन्तरज्योतिष्कवैमानिकाः, नरा मर्त्याः, तिर्यञ्चश्चतुष्पदपक्षिझषवृक्षादयः नारकाः नरकवासिनः, तेषां चतुर्णां गतयः संसरणानि देवनतिर्यङ्नारकचतुर्गतयस्ता एव 10 मार्गाः पन्थानस्तेषु । 'तह ते वि' तथा तेऽपि पूर्वगाथोदिता एकेन्द्रियादयो जीवाः षट्कायभाषया भण्यन्ते, यथा, 'पुढविकाया' पृथ्वीकायाः -
प्रवालमणिरत्नानि रूप्यस्वर्णादिधातवः । स्फटिकाश्मखटीधातुहरितालमनः शिलाः ॥१॥ [ ] गन्धकाभ्रकपालेवारणवृक्षारपारदाः । सौवीराञ्जनकासीसतुवर्याद्या भुवो भिदाः ॥२॥ [ ] 'दगकाया' अप्कायाः -
आकाशभूम्यवश्यायमिहकाकरका हिमम् । घनाम्भोधिहरतनुप्रमुखा जलजातयः ॥१॥ [ ] 'वाउकाया य' चः समुच्चये, वायुकायाः पवनाः, 'तेउकाया' तेजस्काया 20 अग्नयः, तथा ह्युभयेऽपिवात्याघनतनूभ्रामोत्कुलीगुञ्जादयोऽनिलाः । अङ्गारमुर्मुरज्वालाकणोल्काविद्युतोऽनलाः ॥१॥ [ ]