SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ ६००] [विवेकमञ्जरी अवसर्पिणीयं षड्भिरैरेतविलोमभिः । उत्सर्पिणी, तदानन्त्यात् परिवर्तः प्रकीर्तितः" ॥११॥ [ ] तदेवंविधः कालः । किंविशिष्टः ? 'अणाई' न विद्यत आदि मूलं यस्येत्यसावनादिः। न केवलं कालः, 'जीवो अणाइ' जीवोऽप्यनादिः । 'तह' तथा 5 ‘भवपरम्पराणाई' भवानां जन्मनां परम्परा पद्धतिः अनादिः। 'जे केवि' ये केऽपि 'तत्थ' तत्र भवपरम्परायां जीवाः प्राणिनः ‘एगिदियपमुहजाईसु' एकमिन्द्रियं स्पर्शनं येषां त एकेन्द्रियाः पृथ्व्यवादयः तत्प्रमुखाणां जातयो निकायास्तत्तथा तासु ॥७२॥ अथ तान् व्यक्तोच्चरति10 एगिदिया य बेइंदिया य तेइंदिया य चउरिंदी । पंचिंदिया य कत्थ वि असन्निपचिंदिया चेव ॥७३॥ [एकेन्द्रियाश्च द्वीन्द्रियाश्च त्रीन्द्रियाश्च चतुरिन्द्रियाः । पञ्चेन्द्रियाश्च कुत्राप्यसज्ञिपञ्चेन्द्रियाश्चापि ॥] व्याख्या - 15 एकेन्द्रियाः पृथिव्यम्बुतेजोवायुमहीरुहः । द्वीन्द्रियाः कृमयः शङ्खा गण्डूपदजलौकसः ॥१॥ [ ] त्रीन्द्रिया मत्कुणा यूका मत्कोटकपिपीलिकाः । चतुरिन्द्रियका भृङ्गमक्षिकाशलभादयः ॥२॥ [ ] पञ्चेन्द्रिया जरापोताण्डजाः संमूर्च्छनोद्भिदः । 20 गर्भजोद्भेदजास्तत्र संज्ञिनोऽसंज्ञिनः परे ॥३॥ [ ] शिक्षोपदेशालापान् ये जानते संज्ञिनोऽत्र ते । संप्रवृत्तमनःप्राणास्तेभ्योऽन्ये स्युरसंज्ञिनः ॥४॥ [ ] ॥७३॥ देवनरतिरियनारयचउगइमग्गेसु परिभमंता य । तह ते वि पुढविकाया दगकाया वाउकाया य ॥७४॥
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy