________________
[५९९
दुष्कृतगर्हाद्वारम् ] "समयावलीमुहुत्ता दिवसअहोरत्तपक्खमासाई ।
संवच्छरजुयपलियासागरओसप्पिपरियट्टा" ॥ [ सू.प्र./४९] तत्र समयो जीर्णपटपाटनादिदृष्टान्ताद् निर्विभागकालरूप: आवली तु असंख्यसमयसमितिसमुदयसमागमरूपा, मुहूर्तस्तु घटिकाद्वयरूपः, दिवसाहोरात्रपक्षमाससंवत्सरास्तु विदिता एव । युगं तु पञ्चवर्षमयम्, पल्योपमं तूद्धाराद्धाभेदाभ्यां 5 द्विरूपं विदितमेव । सागरोपममपि च प्रख्यातम् । उत्सर्पिण्यवसर्पिणीपरावर्तास्तूच्यन्ते, यथा"सुषमसुषमानाम्नि सागराः कोटिकोटयः । चतस्रोऽरे प्रमा क्रोशत्रयीमानं च युग्मिनाम् ॥१॥ [ ] आयुः पल्योपमानानि स्युस्त्रीण्याहारो दिनत्रयात् । दश कल्पद्रुमा मत्तगजभृङ्गादयो मताः ॥२॥ [ ] सुषमारे प्रमा त्र्यब्धिकोटिकोटी दश द्रुमाः । द्व्यहाशिता द्विपल्यायुः क्रोशौ मानं च युग्मिनाम् ॥३॥ [ ] सुषमदुष्षमारे द्वे कोटाकोटिप्रमाब्धयः । क्रोशोच्चयुग्मिनामायुः पल्यं चान्नं दिनैकतः ॥४॥ [ ] दुष्षमासुषमारे च द्विचत्वारिंशतोनकाः । सहस्त्रैः शारदां मानं कोटिकोटिपयोधयः ॥५॥ [ ] पूर्वकोट्यायुषां नृणां धनुःपञ्चशती प्रमा । कल्पांहिपक्षयोऽर्हन्तः स्युस्त्रयोविंशतिः क्रमात् ॥६॥ [ ] दुष्षमारे प्रमा वर्षसहस्त्रा एकविंशतिः । सप्तहस्तनृणामायुः समा विंशोत्तरं शतम् ॥७॥ [ ] द्विसप्ततिशरन्मानायुषो निर्वृतिरर्हतः । भस्मकोदयतो वर्षसहस्रौ द्वौ न यच्छिदा ॥८॥ [ ] दुष्षमादुष्षमारे च शरदामेकविंशतिः । सहस्त्रा मानमायुश्च षोडशाब्दी करप्रमा ॥९॥ [ ] वैताढ्यकन्दरे गङ्गासिन्धूभयतटीभुविः ।। बिलवासिमनुष्याणां युगलानि द्विसप्ततिः ॥१०॥ [ ]
15
25