________________
५९८]
[विवेकमञ्जरी प्रकारेण धर्मे स्थैर्यारोपणम्, प्रमाद्यतां च स्मारणवारणादिकरणम्, वाचना-प्रच्छनापरिवर्तना-ऽनुप्रेक्षाधर्मकथादिषु यथायोग्यं विनियोजनम्, विशिष्टधर्मानुष्टानकरणार्थं च साधारणपौषधशालादे: करणमिति । श्राविकासु च सन्माननं श्रावकवदन्यूनातिरिक्तमुन्नेतव्यम्, यदुक्तम्5 "जं सावयाणं करणिज्जमुत्तं तं सावियाणं पि मुणेह सव्वं ।
तित्थाहिवाणं वयणे रयाणं ताणं विभागेण विसेसकिच्चं" ॥ इति । [ ] 'जं विहियं सुहकिच्चं अन्नं पि मए' मया यद् विहितं शुभकृत्यं धर्मकार्यमन्यदपि। कोऽत्र भावः । अविचारितपात्रापात्रमविमृष्टकल्पनीयाकल्पनीयप्रकारं
केवलयैव करुणाया दीनेष्वार्तेषु भीतेषु जीवितं याचमानेषु प्रतीकारकृते धनवितर10 णादि यत् कृतम् । किं स्वच्छन्दम् ? इत्याह-'जिणाण आणाए' जिनानां रागद्वेष
विप्रमुक्तानामर्हतां आज्ञया "अणुकंपादाणं उण जिणवरेहिं न कयावि पडिसिद्धं" इत्यादिरूपया शिक्षया। यद्वा, भगवन्तोऽपि हि निष्क्रमणकालेऽनपेक्षितपात्रापात्रविभागं करुणया सांवत्सरिकदानं दत्तवन्त इति । 'तं सव्वं पि' तत् पूर्वोक्तं सर्वमप्यशेषमपि 'अणग्धं' न विद्यतेऽन्यदर्घ्यं यस्मात् तदनयँ 'मम' इति स्पष्टं, 'हुज्जा' 15 भूयात् । कीदृक् ? 'मुक्खसुक्खफलं' मोक्षसौख्यमेव निःश्रेयसशर्मैव फलं यस्य तत्तथेति ॥७०॥७१॥ अथानन्तरभवापराद्धं जन्तुजातं सप्तभिर्गाथाभिर्व्यक्त्योच्चार्य क्षमयन्नाह - कालो अणाइ जीवो अणाइ तह भवपरंपराणाई । जे केवि तत्थ जीवा एगेंदियपमुहजाईसु ॥७२॥ [कालोऽनादिर्जीवोऽनादिस्तथा भवपरम्पराऽनादिः ।
ये केऽपि तत्र जीवा एकेन्द्रियप्रमुखजातिषु ॥] व्याख्या । काल: समयावलिकादिरूपः, यदाहुः१. यत् श्रावकाणा करणीयमुक्तं तत् श्राविकाणामपि जानीत सर्वम् ।
तीर्थाधिपानां वचने रतानां तासां विभागेन विशेषकृत्यम् ॥ २. अनुकम्पादानं पुनर्जिनवैरन कदापि प्रतिषिद्धम् ।