________________
[५९७
दुष्कृतगर्हाद्वारम्] च वस्त्रादीनां, प्रतिलेखनाहेतो रजोहरणादीनां, भोजनाद्यर्थं च पात्राणाम्, औपग्रहि“काणां च दण्डकादीनां, निवासार्थमाश्रयाणं च दानम्, साधुधर्मोद्यतस्य स्वपुत्रपुत्र्यादेरपि समपर्णमिति । यदुक्तम्"काले पत्ताण पत्ताण धम्मसद्धाकमाइणा । असणाईण दव्वाणं दाणं सव्वत्थसाहणं ॥ [ मू.शु./८२] असणं खाइमं पाणं साइमं मेसहोसहम् । वत्थं पडिग्गहं चेव रओहरणकंबलं ॥ [ मू.शु./८३] पीढगं फलगं चेव सज्जा संथारयं तहा ।
धम्मोवगरणं नाउं नाणाईणं पसाहणं" ॥ [मू.शु./८४] तथा रत्नत्रयधारिणीषु साध्वीषु साधुष्विव यथोचिताहारादिप्रदानम्, यदाह- 10 "साहूण जं पावयणे पसिद्धं तं चेव अज्जाण वि जाण किच्चं । पाएण ताणं नवरं विसेसो वट्टावणाई बहुनिज्जरं ति" ॥ [ ] कया? 'भत्तीए' भक्त्या 'जं कयं च सम्माणं' यत् कृतं च सन्मानं वात्सल्यं श्रावकेष्विति मन्तव्यम् । सार्मिकाः खलु श्रावकस्य श्रावकः, समानधार्मिकाणां च सङ्गमोऽपि महते पुण्याय, किं पुनस्तदनुरूपा भक्तिः ? । सा च स्वपुत्रादिजन्मो- 15 त्सवे विवाहेऽन्यस्मिन्नपि तथाविधे प्रकरणे साधर्मिकाणां निमन्त्रणम्, विशिष्टभोजनताम्बूलवस्त्राभरणादिदानम्, आपन्निमग्नानां च स्वधनव्ययेनाप्युद्धरणम्, अन्तरायदोषाच्च विभवक्षये पुनः पूर्वभूमिकाप्रापणम्, धर्मे च विषीदतां तेन तेन
१. काले प्राप्तेभ्यः पात्रेभ्यो धर्मश्रद्धाक्रमादिना ।
अशनादीनां द्रव्याणां दानं सर्वार्थसाधनम् ॥ अशनं खादिम पानं स्वादिम भैषजौषधम् । वस्त्रं प्रतिग्रहं चापि रजोहरणकम्बलम् ॥ पीठकं फलकं चापि शय्या संस्तारकस्तथा ।
धर्मोपकरणं ज्ञात्वा ज्ञानदीनां प्रसाधनम् ॥ २. साधूनां यत्प्रवचने प्रसिद्धं तदेवार्याणामपि जानीहि कृत्यम् ।
प्रायेण तासां केवलं विशेषो वर्तनादि (?) बहुनिर्जरमिति ॥