SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ ५९६] [विवेकमञ्जरी "करिज्ज तम्हा पडिमा जिणाणं ण्हाणं पइट्ठाबलिपूयजत्ता । अणच्चयाणं च चिरंतणाणं जहारिहं रक्खणवद्धणंति" ॥ [ ] जिनभवने तु शल्यादिरहितायां भुवि स्वयं सिद्धस्योपलकाष्ठप्रमुखदलस्य ग्रहणेन, सूत्रधारादिभृतकानतिसन्धानेन, भृत्यानामधिकमूल्यावितरणेन, षड्जीवनिकाय5 रक्षायतनया विधापनम, तस्य च जीर्णस्य शीर्णस्य च समारचनम्, नष्टस्य भ्रष्टस्य चोद्धरणम् । तत्र देवाधिदेवस्य क्षीरस्नानाय गोकुलप्रदानम्, कुसुमपूजार्थं चारामवितरणम्, वाद्यनादनृत्यपूजाकृतः प्रमदाकुलस्य वृत्तये पुरनगरग्रामदेशदानम्, भग्नरुग्णसमारचनविधये द्रविणवितरणं चेति । यदुक्तम्"दिज्जा दवं मंडलगोउलाई जिन्नाई सिन्नाई समारज्जा । नट्ठाई भट्ठाइं समुद्धरिज्जा मुक्खंगमेयं खु महाफलं ति" ॥ [ ] जिनागमे तु पुस्तकलेखनम्, वस्त्रादिभिरभ्यर्चनम्, यदुक्तम्"लेखयन्ति नरा धन्या ये जिनागमपुस्तकम् । ते सर्वं वाङ्मयं ज्ञात्वा सिद्धि यान्ति न संशयः" ॥ [यो.शा./३/१११व.] लिखितानां च पुस्तकानां संविग्नगीतार्थेभ्यो बहुमानपूर्वकं व्याख्यानार्थं च 15 दानम्, व्याख्यायमानानां च प्रतिदिनं पूजापूर्वकं श्रवणम्, तत्पाठकानां भक्तिपूर्वकं सम्माननं चेति । यदाह "पठति पाठयते पठतामसौ वसनभोजनपुस्तकवस्तुभिः । प्रतिदिनं कुरुते य उपग्रहं स इह सर्वविदेव भवेद् नरः" ॥ [ ] साधुषु च जिनवचनानुसारेण सम्यक्चारित्रमनुपालयत्सु आ तीर्थकरगणधरेभ्यः, 20 आ च तद्दिनदीक्षितेभ्यः सामायिकसंयतेभ्यो यथोचितप्रतिपत्त्योपकारिणां प्रासुकैष णीयानां कल्पनीयानां चाशनादीनां, रोगापहारिणां च भैषजादीनां, शीतादिवारणार्थानां १. कुर्यात्तस्मात्प्रतिमा जिनानां स्नानं प्रतिष्ठाबलिपूजायात्राः । अनर्चकानां च चिरंतनानां यथार्ह रक्षणवर्धनमिति ॥ २. दद्याद् द्रव्यं मण्डलगोकुलादि जीर्णानि शीर्णानि समारचयेत् । नष्टानि भ्रष्टानि समुद्धरेन्मोक्षाङ्गमेतत्खलु महाफलमिति ॥
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy