________________
[५९५
दुष्कृतगर्हाद्वारम्] "सुयनाणम्मि नेउन्नं केवले तयणंतरं ।
अप्पणो य परेसिं च जम्हा तं परिभावियं" ॥ [ ] अपि च, अस्य केवलज्ञानादपि प्रामाण्यातिरेकित्वं च, यदाहुः"ओहा सुउवउत्तो सुयनाणी जइ हु गिण्हइ असुद्धं ।
तं केवली विभंजइ अपमाणसुअं भवे इहरा" ॥ [ ] साधुसाध्वीनां च जिनवचनानुसारेण निर्वाणसाधकत्वं सर्वजीवदयापरत्वं व्रतशीलतपोयुक्तत्वं सद्गतिकाङ्क्षत्वं च, यदुक्तम्
"निर्वाणसाधकान् साधून् सर्वजीवदयापरान् । व्रतशीलतापोयुक्तान् वन्दे सद्गतिकाङ्क्षणः" ॥ [ ]
श्रावक श्राविकाणां च विशुद्धसिद्धान्तानुप्रेक्षया श्रद्धासमृद्धिपावकत्वम्, सुपात्रेषु 10 च न्यायोपात्तवित्तवापकत्वम्, साधुवर्गसंसर्गात् पापावकरविक्षेपकत्वं च, यदुक्तं निरुक्त्याम्
"श्रद्धालुताश्रान्तपदार्थचिन्तनाद् धनानि पात्रेषु वपत्यनारतम् । किरत्यपुण्यानि सुसाधुसेवनादथापि तं श्रावकमाहुरञ्जसा" ॥ इति । [ ]
तैः सम्यग् ऋद्धानि उपचितानि गुणसमृद्धानि तेषु गुणसमृद्धेषु 'जं चिय दाणं' 15 'चिय त्ति' अवधारणे, यद् दानं दत्तं जिनबिम्बजिनभवनजिनागमसाधुसाध्वीष्विति मन्तव्यम् । तत्र जिनबिम्बे श्रीकालिकाचार्यप्रभृतिगणभृत्प्रणीतसप्तप्रतिष्ठाकल्पोक्तविधिना प्रतिष्ठापनम्, अष्टाभिश्च प्रकारैरभ्यर्चनम्, यात्राविधानम्, विशिष्टाभरणभूषणम्, विचित्रवस्त्रैः परिधापनमिति । यदाह१. श्रुतज्ञाने नैपुण्यं केवले तदनन्तरम् ।
आत्मनश्च परेषां च यस्मात्तत् परिभावितम् ।। २. ओघात् श्रुतोपयुक्तः श्रुतज्ञानी यदि खलु गृह्णात्यशुद्धम् ।
तत्केवली विभनक्ति अप्रमाणश्रुतं भवेदितरथा ॥