SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ दुष्कृतगर्हाद्वारम् ] "पाणिवहमुसावाए अदत्तमेहुणपरिग्गहे चेव । दिसिभोगदंडसमईदेसे तह पोसहविभागो" ॥ [सं.प्र./११२१ ] ॥६८॥ संकाकंखविगिच्छामिच्छादिट्ठिस्स संथवपसंसा । आसायणं च कत्थ वि कयं तं खमावेमि ॥६९॥ [शङ्काकाङ्क्षाविचिकित्सा मिथ्यादृष्टेः संस्तवप्रशंसे । आशातनं च कुत्रापि तस्य कृतं तत्क्षमयामि ॥] [ ५९३ १. प्राणिवधमृषावादावदत्तमैथुनपरिग्रहाश्चापि । दिग्भोगदण्डसामायिकदेशास्तथा पौषधविभागौ ॥ 5 व्याख्या । “द्वितीयादेः" इति प्राकृतलक्षणात् 'तस्स' तत्र दशद्वादशोभयभेदधन्ये जिनोपज्ञे सम्यक्त्वमूले भवजलधिपरकूले चिदानन्दलक्ष्मीहर्म्ये धर्मे शङ्का संशय - करणं, काङ्क्षा अन्यान्यदर्शनग्रहणेच्छा, विचिकित्सा फलं प्रति सन्देहः, 'मिच्छादिट्ठिसंथवपसंसा' मिथ्यादृष्टीनां शाक्यादीनां संस्तवः परिचय:, तेषामेव प्रशंसा 10 स्तुतिः 'आसायणं च' मनोवाक्कायैरवज्ञाकरणमाशातनं 'कत्थ वि' कस्मिन्नपि भवे कुत्रापि प्रस्तावे क्वापि विषये कृतं यत् 'तं खमावेमि' तत् क्षमयामि सानुतापेन मनसा तद् व्युत्सृजामीति भावः ॥ ६९॥ अथात्मनः सप्तक्षेत्रीदानमनुकम्पादानं च गाथायुगेन शंसन्नाहजिणसमयपसिद्धेसु सत्तसु गुणसमिद्धेषु । जं चिय दिन्नं दाणं भत्तीए कयं च सम्माणं ॥ ७० ॥ जं विहियं सुहकिच्चं अन्नं पि मए जिणाण आणाए । तं सव्वं पि अणग्घं मम हुज्जा मुक्खसुक्खफलं ॥७१॥ [जिनसमयप्रसिद्धेषु सप्तसु क्षेत्रेषु गुणसमृद्धेषु । यदेव दत्तं दानं भक्त्या कृतश्च च सम्मानः ॥ यद् विहितं शुभकृत्यमन्यदपि मया जिनानामाज्ञया । तत्सर्वमप्यनर्घ्यं मम भवेद् मोक्षसौख्यफलम् ॥] 15 20
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy