SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ ५९२] . [विवेकमञ्जरी कया' अशातना हस्तपादादिसंघट्टना तथा कृता 'कया वि' कदापि, 'खामेमि तं सव्वं' क्षमयामि तत् सर्वमशेषमिति ॥६६॥ अथ गाथात्रयेण धर्ममुत्कीर्त्य क्षमयन्नाह - अहिंसालक्खणो धम्मो गुणाण रयणायरो । 5 भासिओ वीअराएहिं मुक्खसुक्खाण कारणं ॥६७॥ [अहिंसालक्षणो धर्मो गुणानां रत्नाकरः । भाषितो वीतरागैर्मोक्षसौख्यानां कारणम् ॥] स्पष्टा ॥६७॥ दहभेओ जइधम्मो सावयधम्मो य बारस वयाई । 10 भणिओ थूलगपाणाइवायविरमणपुरोगाइं ॥६८॥ [दशभेदो यतिधर्मः श्रावकधर्मश्च द्वादश व्रतानि । भणितः स्थूलप्राणातिपातविरमणपुरोगाणि ॥] . व्याख्या । पूर्वगाथोपदिष्टो धर्मस्तावद् द्विप्रकारो यतिधर्मः श्रावकधर्मश्च । तत्र 'दहभेओ जइधम्मो' दशभेदो यतिधर्मः, यदाहुः15 "खंती य मद्दवज्जवमुत्ती तवसंजमे य बोद्धव्वे । सच्चं सोयं आकिंचणं च बंभं च जइधम्मो" ॥ [प्र.सा./५५४] 'सावयधम्मो बारस वयाइं भणिओ' भणित उपदिष्टः । कोऽसौ ? श्रावकधर्मः । च पुनरर्थे । किंरूप: ? 'बारस वयाई' द्वादश च व्रतानि च द्वादशव्रतानि । किंविशिष्टानि ? 'थूलगपाणाइ त्ति' स्थूलकं च तद् बादरं प्राणातिपातविरमणं च 20 तत्तथा, तत् पुरोगं मुख्यं येषां तानि । यदाहुः १. क्षान्तिश्च मार्दवार्जवमुक्तयस्तपःसंयमौ च बोद्धव्याः । सत्यं शौचमाकिञ्चन्यं च ब्रह्म च यतिधर्मः ॥
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy