SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ [५९१ दुष्कृतगर्हाद्वारम्] दानैस्तपस्यतीति श्रमणः स चासौ श्रिया शोभयोपलक्षितः संघः श्रीश्रमणसङ्घः; चः समुच्चये; जयति सर्वोत्कर्षेण वर्तते । किंविशिष्टः ? 'सुरासुरनमिओ' सुरा वैमानिकज्योतिष्काः, असुरा भवनव्यन्तरा मांश्च तैर्नमितो वन्दितः सुरासुरनमितः । 'गुणरयणमहोयही' गुणाः कृपादयस्त एव रत्नानि तेषां महोदधिः समुद्रः । अत एव 'सुहावासो' शुभं श्रेयस्तदावासः, समुद्रोक्तिलेशे तु सुधा पीयूषं 5 तदावासः । पुनः किंविशिष्टः सङ्घः ? 'तित्थयरमाणणीओ' तीर्थकरा जिनास्तैर्माननीयो वन्दनीयः । इतश्च समुद्रोऽपि, तीर्थमवतारं कुर्वन्ति तीर्थकरास्तारकास्तैर्माननीयः स्यादिति ॥६४॥ तं भगवंतं अणहं नियसत्तीए अणग्घभत्तीए । सक्कारेमि य संमाणेमि य सिरसा नमसामि ॥६५॥ [तं भगवन्तमनघं निजशक्त्याऽन्य॑भक्त्या । - सत्करोमि च सम्मानयामि च शिरसा नमस्यामि ॥] व्याख्या । तं श्रीश्रमणसङ्घ भगवन्तं पूज्यं 'अणहं' अनघं निष्पापं 'नियसत्तीए' निजशक्त्या 'अणग्घभत्तीए' अनर्घ्यभक्त्या महद्भक्त्या यथाक्रमं 'सक्कारेमि य' सत्करोमि च प्रवरवस्त्राभरणैरभ्यर्चयामि च 'सम्माणेमि य' सन्मानयामि च गुणो- 15 न्नतिक्रियया स्तवीमि च, शिरसा उत्तमाङ्गेन, आदरप्रदर्शनार्थं चैतत्, ‘नमंसामि' नमस्यामीति ॥६५॥ जं तस्स मए कत्थ वि पडिकूलं कह वि विप्पियं विहियं । आसायणा तह कया कया वि खामेमि तं सव्वं ॥६६॥ [यत्तस्य मया कुत्रापि प्रतिकूलं कथमपि विप्रियं विहितम् । 20 आशातना तथा कृता कदापि क्षमयामि तत्सर्वम् ।।] व्याख्या । यत् तस्य भगवतः श्रीश्रमणसङ्घस्य 'मए' मया 'कत्थ वि' क्वापि समये 'पडिकूलं' प्रतिकूलं हितोपदेशविपरीताचरणं 'कह वि' कथमपि प्रमादेनेत्यर्थः 'विप्पियं' विप्रियमनिष्टाचरणं 'विहियं' विहितम्, 'आसायणा तह
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy