________________
[५९१
दुष्कृतगर्हाद्वारम्]
दानैस्तपस्यतीति श्रमणः स चासौ श्रिया शोभयोपलक्षितः संघः श्रीश्रमणसङ्घः; चः समुच्चये; जयति सर्वोत्कर्षेण वर्तते । किंविशिष्टः ? 'सुरासुरनमिओ' सुरा वैमानिकज्योतिष्काः, असुरा भवनव्यन्तरा मांश्च तैर्नमितो वन्दितः सुरासुरनमितः । 'गुणरयणमहोयही' गुणाः कृपादयस्त एव रत्नानि तेषां महोदधिः समुद्रः । अत एव 'सुहावासो' शुभं श्रेयस्तदावासः, समुद्रोक्तिलेशे तु सुधा पीयूषं 5 तदावासः । पुनः किंविशिष्टः सङ्घः ? 'तित्थयरमाणणीओ' तीर्थकरा जिनास्तैर्माननीयो वन्दनीयः । इतश्च समुद्रोऽपि, तीर्थमवतारं कुर्वन्ति तीर्थकरास्तारकास्तैर्माननीयः स्यादिति ॥६४॥
तं भगवंतं अणहं नियसत्तीए अणग्घभत्तीए । सक्कारेमि य संमाणेमि य सिरसा नमसामि ॥६५॥
[तं भगवन्तमनघं निजशक्त्याऽन्य॑भक्त्या । - सत्करोमि च सम्मानयामि च शिरसा नमस्यामि ॥] व्याख्या । तं श्रीश्रमणसङ्घ भगवन्तं पूज्यं 'अणहं' अनघं निष्पापं 'नियसत्तीए' निजशक्त्या 'अणग्घभत्तीए' अनर्घ्यभक्त्या महद्भक्त्या यथाक्रमं 'सक्कारेमि य' सत्करोमि च प्रवरवस्त्राभरणैरभ्यर्चयामि च 'सम्माणेमि य' सन्मानयामि च गुणो- 15 न्नतिक्रियया स्तवीमि च, शिरसा उत्तमाङ्गेन, आदरप्रदर्शनार्थं चैतत्, ‘नमंसामि' नमस्यामीति ॥६५॥
जं तस्स मए कत्थ वि पडिकूलं कह वि विप्पियं विहियं । आसायणा तह कया कया वि खामेमि तं सव्वं ॥६६॥ [यत्तस्य मया कुत्रापि प्रतिकूलं कथमपि विप्रियं विहितम् । 20
आशातना तथा कृता कदापि क्षमयामि तत्सर्वम् ।।] व्याख्या । यत् तस्य भगवतः श्रीश्रमणसङ्घस्य 'मए' मया 'कत्थ वि' क्वापि समये 'पडिकूलं' प्रतिकूलं हितोपदेशविपरीताचरणं 'कह वि' कथमपि प्रमादेनेत्यर्थः 'विप्पियं' विप्रियमनिष्टाचरणं 'विहियं' विहितम्, 'आसायणा तह