SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ ५९०] [विवेकमञ्जरी अथ दुष्कृतगर्हाद्वारमाह अरहंतसिद्धचेईयसिद्धताईण जयपवित्ताणं । जं आसाईयमिण्हिं मह मिच्छा दुक्कडं तत्थ ॥६२॥ [अर्हत्सिद्धचैत्यसिद्धान्तादीनां जगत्पवित्राणाम् । यदाशातिर्तामदानीं मम मिथ्या दुष्कृतं तत्र ॥] व्याख्या । 'अरहंत त्ति' अर्हन्तो जिनाः, सिद्धाः प्रक्षीणशेषकर्माणः, चैत्यानि जिनयतनानि, सिद्धान्तः प्रवचनम्, त एते आदौ येषां ते तथा गुरुस्थविरोपाध्यायतपस्विनस्तेषाम्; 'जयपवित्ताणं' जगत्पवित्राणां 'जं आसाइयं' यद् आशातितम् अवज्ञातम्; 'इण्हिं' इदानीं 'मह मिच्छा दुक्कडं तत्थ' तत्राशातनाविषये मम मिथ्या 10 दुष्कृतमिति ॥६२॥ अथ जिनवाणी क्षमयन्नाहपयअक्खरमत्ताए अहियं हीणं च जं मए गुणियं । तं तित्थयरपयासियवाणीए मज्झ खमियव्वं ॥६३॥ [पदाक्षरमात्रयाऽधिकं हीनं च यन्मया गुणितम् । तीत्तीर्थकरप्रकाशितवाण्या मम क्षन्तव्यम् ॥] स्पष्टा ॥३॥ अथ गाथात्रयेण सङ्घमभिष्टुत्य क्षमयन्नाहजयइ सुरासुरनमिओ गुणरयणमहोयही सुहावासो । तित्थयरमाणणीओ चउविहसिरिसमणसंघो य ॥६४॥ [जयति सुरासुरनतो गुणरत्नमहोदधिः शुभ(सुधा)वासः । तीर्थकरमाननीयश्चतुर्विधश्रीश्रमणसङ्घश्च ।।] व्याख्या । चतुर्विधः साधुसाध्वीश्रावकश्राविकारूपः, श्राम्यति तप:शीलभावना 20
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy