SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ मोदनासंग्रहः ] ‘सव्वसिद्धाणं' सर्वे च ते तीर्थातीर्थतीर्थकरातीर्थकरप्रत्येकबुद्धस्वयंबुद्धबोधितपुंलिङ्गनपुंसकलिङ्गपरलिङ्गगृहलिङ्गैकानेकादिभिः पञ्चदशभिर्मेदैः सिद्धाः सर्वसिद्धाः । तत्र नपुंसकलिङ्गसिद्धास्तीर्थकरसिद्धा न भवन्त्येव । प्रत्येकबुद्धसिद्धास्तु पुंलिङ्गसिद्धा एव स्वलिङ्गेन रजोहरणादिना द्रव्यलिङ्गेन सिद्धाः स्वलिङ्गसिद्धाः । अन्येषां परिव्राजकादीनां लिङ्गेन सिद्धा अन्यलिङ्गसिद्धाः । गृहिलिङ्ग- 5 सिद्धा अतीर्थसिद्धाश्च मरुदेव्यादयः । एकैकस्मिन् समये एकाकिनः सिद्धा एकसिद्धाः । एकस्मिन् समयेऽष्टोत्तरशतं यावत् सिद्धा अनेकसिद्धाः । यदाह""अडवीसा (बत्तीसा) अडयाला सट्ठी बावत्तरी य बोद्धव्वा । [ ५८९ चुलसी य छन्नउई दुरहियमट्टुत्तर सयं च " ॥ [ बृ.सं./२५७ ] इति । तेषाम् । ‘आयरियाणायारं' आचार्याणां गणभृतां ज्ञाने दर्शने चरणे तपसि 10 चाचरणमाचारस्तत् । ‘उज्झायाणं च अज्झयणं' च पुनरर्थे, उपाध्यायानामध्ययनं सिद्धान्तपाठस्तत्। ‘सच्चरियं साहूणं' साधूनां महर्षीणां सत् समीचीनं चरितमष्टादशशीलाङ्गसहस्रधुराधरणस्वरूपं तत् । किं बहुना ? 'जं सुहकिच्चं च सावयाणं पि' चः समुच्चये, यत् शुभकृत्यं सत्कर्मे देवपूजा - गुरूपास्ति-स्वाध्याय-संयमतपो-दानादि श्रावकाणामपि तत् । 'अनुमोदयामि' इति संबन्धः ||६०|| ||६१|| 15 1 ॥ इत्याचार्यश्रीबालचन्द्रविरचितायां विवेकमञ्जरीवृत्तौ गुणानुमोदनाद्वारविवरणं नाम द्वितीयः परिमलः ॥ अन्तर्नभोजलधिकुण्डलिताहिराजरम्ये विधौ विदलिताञ्जनकान्तिलक्ष्म । आसीनकेशववतुलामिदमेति यावत् तावज्जयं कलयतायदिह जैत्रसिंहः ॥ १. अष्टाविंशतिः (द्वात्रिंशत् ) अष्टचत्वारिंशत् षष्टिर्द्वासप्ततिश्च बोद्धव्याः । चतुरशीतिश्च षण्णवतिर्द्धयधिकमष्टोत्तरं शतं च ॥
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy