________________
५८८]
[विवेकमञ्जरी अथ सतीवर्गोपसंवर्गणकथामाह - इयमाइ सलहणिज्जा महासई जाण सुद्धचरियाण । वाइज्जइ सीलगुणो पयडु व्व जयम्मि जसपडहो ॥५९॥ [इत्यादयः श्लाघनीया महासत्यो यासां शुद्धचरितानाम् ।
वाच्य(द्य)ते शीलगुणः प्रकट इव जगति यशःपटहः ॥] व्याख्या । इत्यादयो महासत्यः श्लाध्याः स्तुत्याः । 'जाण सुद्धचरियाण' यासां शुद्धचरितानां 'सीलगुणो वाइज्जई' शीलमेव सर्वसिद्धिनिबन्धनं स्वस्वभाव एव गुणः शीलगुणः वाच्यत उघुष्यते । ‘पयडु व्व जयम्मि जसपडहो' प्रकटो
जगति यशःपटह इव स तु वाद्यत इति ॥५९॥ 10 अथ गाथायुगेन गुणनुमोदनासंग्रहमाह -
गुणगारवं जिणाणं सिद्धसरूवं च सव्वसिद्धाणं । आयरियाणायारं उज्झायाणं च अज्झयणं ॥६०॥ सच्चरियं साहूणं जं सुहकिच्चं च सावयाणं पि । अणुमोएमि सहरिसं तं चिय उल्लसियरोमंचो ॥६१॥ [गुणगौरवम् जिनानां सिद्धस्वरूपं च सर्वसिद्धानाम् । आचार्याणामाचारमुपाध्यायानां चाध्ययनम् ॥ सच्चरितं साधूनां यच्छुभकृत्यं च श्रावकाणामपि ।
अनुमोदे सहर्षं तदेवोल्लसितरोमाच्चः ॥] व्याख्या । उल्लसितः प्रादुर्भूतो रोमाञ्चः पुलको यस्य स तथा अहम्, 20 'सहरिसं' सहर्षम्, 'अणुमोएमि' अनुमोदयामि । किम् ? 'तं चिय' तदेव ।
तत्किम् ? इत्याह –'गुणगारवं' गुणानां चतुस्त्रिंशदतिशयरूपाणां पञ्चत्रिंशद्वचनातिशयात्मनां वा गौरवं माहात्म्यम् । केषाम् ? जिनानाम्-अर्हताम् । 'सिद्धसरूवं च' चः समुच्चये, सिद्धस्यानन्तज्ञानदर्शनवीर्यानन्दरूपं सिद्धस्वरूपम् । केषाम् ?