________________
गुणानुमोदनाद्वारे मृगावतीकथा ]
इतरापि तमस्विन्यां संचरन्ती कुलाङ्गना । अन्यथा शङ्कयते लोकैः किं पुनर्न तपोधना ? ॥७३॥ चेटकस्यासि पुत्री त्वं शिष्या वीरस्य च प्रभोः । प्रभावत्यादयस्तास्ते महासत्यश्च यामयः ॥७४॥ आयुष्मति ! प्रमादोऽयं तत् ते नाभूत् कुलोचितः । उपात्तमुनिवृत्तीनामसौ हि परमो रिपुः " ॥७५॥ इत्युक्ते चन्दनां तस्याः क्षमयन्त्या मुहुर्मुहुः । घातिक्षयाद् मृगावत्याः केवलज्ञानमुद्ययो ॥७६॥ निद्रान्त्याश्च प्रवर्त्तिन्या भुवो बाहुमुदक्षिपत् । तत्पार्श्वे सा प्रसर्पन्तं सर्पमालोक्य केवलात् ॥७७॥ तस्यास्तेन प्रयत्नेन जजागार प्रवर्तिनी
1
मनसा स प्रसन्नेन निजगाद मृगावतीम् ॥७८॥ भद्रेऽद्यापि तथैवासि मम संवाहनापरा ।
धिग् मदीयोऽपराधोऽयं यद् विसृष्टासि नो मया ॥७९॥ किञ्च बाहुस्त्वया भूमेः किमुदासीति भाषिता । महाहिरिह यातीति शशंस च मृगावती ॥८०॥ भूयोऽपि चन्दनोवाच सूचिमेद्येऽपि तामसे । मृगावति ! कथं दृष्टस्त्वयाऽहिर्विस्मयो मम ॥८१॥ मृगावती भगवतीत्याचचक्षे प्रवर्त्तिनी ! । उत्पन्नकेवलज्ञानचक्षुषा दृष्ट्वत्यहम् ॥८२॥ केवल्याशातिनीं धिग् मामित्यश्रान्तं स्वगर्हया । उत्पेदे केवलज्ञान चन्दनाया अपि क्षणात् ॥८३॥ आयुष्कर्मान्ते तौ केवलिनौ त्रिभुवनश्रिया मूनि । रत्नत्वं भेजाते मुक्तालीकेशपाशान्तः ॥८४॥ ॥ इति मृगावतीकथा ॥
[ ५८७
5
10
15
20
25