________________
5
10
15
20
५८६ ]
ततोऽगादन्यतः स्वामी तमोहा भानुमानिव । कृत्वोदयनसाद् वत्सान् प्रद्योतोऽपि निजां पुरीम् ॥६१॥
[ विवेकमञ्जरी
कालक्रमेण केनापि विहरन् भगवानथ । पुरीमुदयनक्ष्मापगुप्तां तां पुनराययौ ॥६२॥ निविष्टं त्रिदशोपज्ञे देशनासदसि प्रभुम् । वत्सराजो नमस्कर्तुमागमत् सपरिच्छदः ||६३|| प्रभोश्चरमपौरुष्यां वन्दनायेन्दुभास्करौ । स्वाभाविकविमानस्थौ तस्यां युगपदीयतुः ॥ ६४ ॥ चन्दना समयं ज्ञात्वा नत्वेशं वसतौ गता । तदा मृगावती त्वस्थात् तद्भासा दिवसभ्रमात् ॥६५॥ चन्द्रार्कयोरथोपास्य जिनेशं गतयोस्तयोः । जाते तमसि चात्मानमन्वशोचद् मृगावती ||६६|| हहा प्रमादिनीं धिग् मां यदायान्ती मया निशा । नैवालक्ष्यत यान्ती च प्रवर्त्तिन्यपि शून्यया ॥६७॥
तस्यां यास्ये कथं ध्वान्ते शुध्यतीर्यापथः कथम् ? | शोचन्तीति स्खलन्ती सा रुदती चाचलत् पथि ॥६८॥ युग्मम् ॥ आगाच्च व्रतिनीवृन्दस्वाध्यायध्वनिबन्धुरम् । गतातिचारचारिपात्रसंश्रयाश्रयम् ॥६९॥ आवश्यकान्तविश्रान्तां संस्तारकतले तदा । मृगावती शनैरेत्य तत्रावन्दत चन्दनाम् ॥७०॥ विनयेन नमस्यन्तीमवगम्य मृगावतीम् । उपालब्ध वचोभिस्तां चन्दना चन्दनोपमैः ॥ ७१ ॥
" नक्तमेकाकिनी साध्वि ! तत्र स्थाने स्थितासि किम् ? | निशामप्यसमप्रज्ञे ! न हि ज्ञातवती कथम् ? ॥७२॥