________________
5
10
15
20
25
३५० ]
[ विवेकमञ्जरी
क्षरन्ती प्रस्रवं हर्षबाष्पाभ्भश्च समं तदा । नता भामण्डलेनाथ विदेहा जननी निजा ॥९४॥ स्थानं स्वं स्वमथो यथागतमगुः क्षोणीचराः खेचरा राजानो जनकेन वाजिवसनैर्मासनैः सत्कृताः । ऐक्ष्वाकोऽपि वधूवरेण सहितो मित्रेण भूमीभृतां सम्पूज्यानुगतो निवर्त्य तमथ स्वां राजधानीमगात् ॥९५॥
॥ इति सीताचरितनामनि महाकाव्ये सीतोत्पत्तिविवाहर्वणनो नाम प्रथमः सर्गः ॥
अथो नृपः पङ्क्तिरथो महात्मा तपोवनेषु प्रवया यियासुः । रामं निजे राज्यपदेऽभिषेक्तुमुच्चैरुपाक्रंस्त शुभे ग्रहेऽह्नि ॥१॥ कैकेय्यथो मन्थरया तमाह न्यासीकृतो योऽस्ति वरस्त्वया मे । तेनाद्य भर्तर्भरतस्य राज्यं प्रयच्छ सत्यं यदि राघवेषु ||२|| श्रुत्वेति वाक्यं नृपतिः सदभ्भं दम्भोलिनेव प्रहतो गिरीन्द्रः । पपात मूर्च्छाकुलितो नृसिंहः सिंहासनाद् मीलितलोचनान्तः ॥३॥ श्रीखण्डतोयैर्व्यजनानिलैश्च मूर्च्छापनीतास्य परिच्छदेन । आस्थाय सिंहासनमन्तरेति नरेश्वरश्चिन्तितवान् विवेक्ता ||४|| स्त्रीवाचया चेद् भरतं स्वराज्ये निवेशये स्यादयशस्तदा मे । प्रतिश्रुतं चेच्च न पालये स्वं तदा कलङ्कः प्रथमः कुलेऽस्मिन् ॥५॥ तदस्त्वकीर्त्तिर्मम, किन्तु मा भूदभूतपूर्वाऽत्र कुले कलङ्कः । ध्यात्वेति निःश्वस्य च दीर्घमुष्णमाकारयामास नृपोऽथ रामम् ॥६॥ आहूतमात्रः समुपेत्य रामः प्रणम्य तातस्य पुरो न्यविक्षत् । स्नेहस्पृशा साश्रुशाऽभिपश्यन् पितापि तं गद्गदवागुवाच ॥७॥ स्वयंवरे वत्स ! पुरा मयाऽस्याः सारथ्यतुष्टेन वरः प्रदत्तः । तं याचते केकयराजपुत्री स्वपुत्रराज्येन किमत्र युक्तम् ? ॥८॥ रामोऽप्यभाषिष्ट सुहृष्टचेतास्ताताथिर्त युक्तभिदं जनन्या ।
यद्
बन्धवे मे भरताय राज्यं धिनोति योऽस्मान् विधुनोति शत्रून् ॥९॥