________________
[३४९
10
गुणानुमोदनाद्वारे सीतादेवीकथा]
अथाह जनकद्वा:स्थः क्ष्माचराः खेचरा अपि । भो भोः शृण्वन्तु भूपाला मद्विभुर्वेदयत्यदः ॥८२।। आरोपयति यः कश्चिदेकमप्येतयोर्धनुः । जयलक्ष्मीरिवावन्यां कन्यामुद्वहतां स मे ॥८३।। एकैकशोऽथ दोष्मन्तः खेचराः क्ष्माचरा अपि । उपधनुः समागच्छंस्तदारोपणकाम्यया ॥८४॥ नाशकन् द्रष्टमप्येके नैके स्प्रष्टुमपि क्षमाः । आरोपयन्तो न्यपतन् केऽपि केऽप्यनमंश्च ते ॥८५।। अथो दशरथानुज्ञामाप्य रामो महाभुजः । वज्रावर्ताभिधानस्य धनुषः सविधे ययौ ॥८६।। सोत्प्रासं खेचरैदृष्टः साशङ्कं जनकेन च । लक्ष्मणेन च सोत्कर्षं सहर्षं चापि सीतया ॥८७|| युग्मम् ।। पितुः पुलकदण्डेन सहोद्धृतमथो धनुः । रामेण नामितं चैतद् भूपानामाननैः समम् ॥८८॥ कोटिमारोप्य तत् कीर्त्या सार्धमध्वनयद् धनुः । वैदेहीमनसा साकमाचकर्ष च राघवः ॥८९॥ संशयेन समं राज्ञो जनकस्योदतायर्त । रामेण तद् धनुश्चके पाणौ च सह सीतया ॥१०॥ द्वितीयमर्णवावर्त धनुरारोप्य तत्क्षणात् । कन्या विद्याभृतामष्टादशोपायंस्त लक्ष्मणः ॥९१॥ अथ सीताकृते ताम्यन्मना भामण्डलस्तदा । युग्मजेयं तवेत्युक्तवा मुनिनैकेन बोधितः ॥१२॥ ततो भामण्डलेनौच्चैः सानुतापेन जानकी । नताभिनन्दितश्चायं जनकेन प्रमोदिना ॥९३॥