________________
5
10
15
20
३४८ ]
चिन्तयित्वेति जनकः कालक्षयकृते कृती । विहस्य खेचराधीशमब्रवीदेवमस्त्विति ॥ ७० ॥ ततो वज्रार्णवावर्त्ते अर्पयित्वा स ते धनू ।. मिथिलां प्रापयामास मैथिलं खचरेश्वरः ॥७१॥ आत्मनापि नभश्चारिसभा - मण्डलनन्दनः । तत्र चन्द्रगतिः प्राप स भामण्डलनन्दनः ॥७२॥ मिथिलां परितो विद्याधरसैन्यैरनुदुतः । आवासानग्रहीदेष दत्तस्वर्गभ्रमान् भुवि ॥७३॥ अथो कथितवृत्तान्तो विदेहायै विदेहराट् । प्रातर्व्यधत्त सीतायाः स्वयंवरणमण्डपम् ॥७४|| तत्र ते धनुषी वीरलक्ष्मीभ्रूलतिके इव । चर्चयित्वाऽर्चयित्वा च मण्डपान्तरमण्डयत् ॥७५॥ सीतास्वयंवरकृते जनकेन निमन्त्रिताः । तत्रेयुः कौतुकोत्तालभूपाला भूचरा अपि ॥ ७६ ॥ भूचराः खेचरास्तत्र भुजदण्डोन्मदिष्णवः । एत्य मञ्चेषु पञ्चेषुरूपा भूपा उपाविशन् ॥७७॥ रामश्च लक्ष्मणश्च द्वावपि तौ पितुरात्मनः । पुष्पदन्तौ पदोपान्ते मेरोरिव निषेदतुः ॥७८॥ सखीभिः सहिता सीता रत्नाभरणभारिणी । अथागात् तत्र मूर्त्ताभिः कलाभिरिव शारदा ॥७९॥ धनुषी पूजयित्वा सा रामं मनसि बिभ्रती । जनकस्य पदोपान्तेऽम्बुधेर्लक्ष्मीरिव स्थिता ||८०|| सर्वेषामपि भूपानां निपेस्तुस्तत्र दृष्टयः । प्रत्यग्रविकसज्जातीकलिकायामिवालयः ॥८१॥
[ विवेकमञ्जरी