SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ [३४७ गुणानुमोदनाद्वारे सीतादेवीकथा] लोकोत्तरगुणौर्गीता सीता ते विद्यते सुता । भामण्डलश्च मे सूनुरनूनो रूपसम्पदा ॥५८॥ योगस्तदेतयोर्जात्यरत्नहेम्नोरिवोचितः । मिथो भवतु सम्बन्धादावयोरपि सौहृदम् ॥५९॥ जनकोऽथ जगादेति दत्ता रामाय सा मया । 'सकृत् कन्याः प्रदीयन्ते' तदन्यस्मै ददे कथम् ? ॥६०॥ अथ चन्द्रगतिः प्राह मया सौहृदहेतवे । प्रार्थितोऽसि त्वमानीय क्षमस्तां हर्तुमप्यहम् ॥६१॥ रामाय कल्पिता सीता स्वसुता यद्यपि त्वया । तथापि नः पराजित्य परिणेष्यति तामयम् ॥६२॥ इत्थं सत्यपि सामर्थ्यऽथवा कार्यं द्वयं मया । रक्षणीयापकीतिश्च ग्राह्या च तव कन्यका ॥६३।। वज्रावर्तार्णवावर्ते धनुषी देवताज्ञया । पृथग्यक्षसहस्रेणाधिष्ठिते दुःसहौजसी ॥६४।। पूज्यते प्रत्यहं गोत्रदेवतावद् गृहे पुनः । कृते भविष्यतोः शीरिशाङ्गिणोस्तद् गृहाण ते ॥६५।। आभ्यामारोपयत्येकमपि दाशरथिः स चेत् । तदा वयं जितास्तेनोद्वहतां ते सुतामयम् ॥६६॥ एकं सेवकसौजन्यादपरं भुजविक्रमात् । मद्भरुभयथाप्येतन्न भयं नाम पश्यति ॥६७॥ श्रुत्वेति मैथिलो दध्यौ हा ! वैषम्यमुपस्थितम् । मया रामाय देया सा विघ्नस्त्वयमुपस्थितः ॥६८॥ अभीष्टः क्ष्माचरो रामोऽनभीष्टः खेचरस्त्वयम् । न वेद्मि विकटं कर्म हा सीते ! किं भविष्यति ? ॥६९।। 15
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy