________________
5
10
15
20
३४६ ]
भयङ्करं तमालोक्य सीता भीता सवेपथुः । आरटन्ती हा मातरिति गेहान्तराविशत् ॥४६॥ धृत्वा बाहुशिखाकण्ठकच्छकर्णेषु दासिकाः । रुरुधुस्तं क्रुधोत्ताला द्वारपाला अपि द्रुतम् ||४७|| श्वभ्यः स्वं कीरवत्तेभ्यो मोचयित्वा कथञ्चन । ययावुत्पत्य वैताढ्यं तत्र कोपादचिन्तयत् ॥४८॥ अस्तीह दक्षिणश्रेणीभर्तुश्चन्द्रगतेः सुतः । युवा भामण्डलो दोष्मान् विद्याधरधुरन्धरः ॥४९॥ सीतां चित्रपटे कृत्वा दर्शयाम्यस्य येन ताम् । हठादपहरत्येष क्षते प्रतिकरोम्यदः ||५०|| चिन्तयित्वेति विदधे तत्तथा नारदो मुनिः । भामण्डलोऽपि तां दृष्ट्वा मन्मथग्रहिलोऽभवत् ॥५१॥ बुबुधे नारदानीतचित्रालिखितयोषिति ।
कामं भामण्डलस्यैतद्वयस्येभ्योऽथ तत्पिता ॥५२॥ आहूय नारदं चन्द्रगतिर्भक्तिपुरस्सरम् । काऽसौ कस्यात्मजेत्यादि पप्रच्छ पटयोषिति ॥ ५३॥ आचख्यौ नारदोऽप्येताममुष्मै पटयोषितम् । यथानाम यथाधाम यथारूपं यथागुणम् ॥५४|| विसृज्य नारदं राजा भामण्डलमथावदत् । त्वां तयोद्वाहयिष्यामि ततो वत्स ! विषीद मा ॥५५ ॥ ततश्चपलगत्याख्यो विद्याभृत् तदनुज्ञया । बद्ध्वा जनकमानीयाऽऽर्पयच्चन्द्रगतेर्निशि ॥५६॥ अथाशूत्थाय जनकं रथनूपुरपार्थिवः । आश्रिलश्योच्चैर्निवेश्यापि सगौरवमदोऽभवत् ॥५७॥
[ विवेकमञ्जरी