________________
गुणानुमोदनाद्वारे सीतादेवीकथा ]
इदानीमातरङ्गस्तैस्तरङ्गैरिव वारिधिः । भीषणोऽक्षौहिणीनाथैरभाङ्गीज्जनकक्षितिम् ||३४||
प्रतिस्थानं च मातङ्गास्ते चैत्यानि न्यपातयन् । शृङ्गाणीव सुतुङ्गानि धर्मविश्वम्भराभृतः ॥३५॥ तत् कुरुष्व परित्राणं धर्मस्य जनकस्य च । अतिमात्रमभीष्टौ ते यदेतौ जीवितादपि ॥ ३८॥ श्रुत्वेति तत्क्षणात् पङ्क्तिरथो म्लेच्छजिगीषया । सुहृत्स्राणप्रयाणाय जयढक्कामदापयत् ॥३७॥ अथो दशरथं प्राह रामो नत्वा कृताञ्जलिः । म्लेच्छमात्रजये यूयं तात मा यात, याम्यहम् ॥३८॥ मयापि सानुजेनायं जेतव्यो युष्मदाज्ञया । इक्ष्वाकवो यदाजन्मविक्रमा भरतादयः || ३९ ॥ इत्थं कथञ्चिदासाद्य पितुराज्ञां सलक्ष्मणः । रामश्चमूसमूहेन वृतोऽगाद् मिथिलामथ ||४०|| म्लेच्छभूपांस्तमोरूपान् रामचन्द्रः सलक्ष्मणः । तत्र वित्रासयामास करैरिव शरैः क्षणात् ॥४१॥ हृष्टोऽथ जनकोऽभ्येत्य रामचन्द्रं सलक्ष्मणम् । पुरीं प्रवेशयामास स्वयं त्वेष मनोऽविशत् ॥४२॥ रामेणागत्य जनको म्लेच्छातङ्काद् न केवलम् । स्वसुताया वरावाप्तिचिन्ताया अपि मोचितः ॥४३॥ $$ जनेभ्यो जानकीरूपं श्रुत्वा द्रष्टुं तदागमत् । कौतुकी नारदः कन्यान्तःपुरे प्रविवेश च ॥४४॥ आपीनं घृतकौपीनं पिङ्केशदृशं भृशम् । तुन्दिलं छत्रिकादण्डकमण्डलुवृषीधरम् ॥४५॥
[ ३४५
5
10
15
20