________________
5
10
15
20
३४४]
दुःशासनस्य तस्यासंश्चतस्त्रः प्राणवल्लभाः । कौशल्या च सुमित्रा च कैकेयी किञ्च सुप्रभा ॥२२॥ राज्ञोऽस्य तासु चत्वारः समभूवंस्तनूभुवः ।रामो लक्ष्मण भरत शत्रुघ्नः क्रमशोऽप्यमी ॥ २३ ॥ पद्मनामा हली तेषु रामो रम्यगुणास्पदम् । नारायणाक्षः किञ्चार्धचक्रभृल्लक्ष्मणोऽष्टमः ॥२४॥ अथास्थानस्थितस्यास्य राज्ञो वेत्री व्यजिज्ञपत् । स्वामिन् ! जनकदूतोऽस्ति सिंहद्वारि निवारितः ॥ २५॥ ‘प्रवेश्य' नृपेणोक्ते वेत्रिणासौ प्रवेशितः । ऐक्ष्वाकं प्रणनामैव पुरस्ताद् निषसाद च ॥२६॥ नृपोऽपि दूतमुद्भूतहर्षोत्कर्षो जगाद तम् । मैथिलस्य सराष्ट्रस्य कुशलं सुहृदो मम ? ॥२७॥ जानामि प्रेषितोऽसि त्वं मन्निर्वृत्तिकृतेऽमुना । विशेषण पुनब्रूहि किमागमनकारणम् ? ॥२८॥ दूतोऽप्यवक्त गणशः सन्त्याप्ताः स्वामिनो मम । देव ! त्वमेव किन्त्वेकः सुहृदात्मा च किं बहु ? ||२९|| जनकस्य सुखैर्दुःखैरिन्दोरिन्दीवरं यथा । गृह्यसे त्वं ततस्तेन स्मृतोऽसि रिपुसङ्कटे ॥३०॥ अस्ति वैताढ्यकैलाशनगयोरन्तरालगः । देशोऽर्धर्बरो नाम जन्मभूरिव पाप्मनः ॥३१॥ मायूरमालनगरे तस्य देशस्य मण्डेन । आतरङ्गतमो नाम म्लेच्छराजोऽस्ति दारुणः ॥३२॥ सुताः सहस्रशस्तस्य नृपीभूयोपभुञ्जते । देशान् काम्बोजवाल्हीकशुकमङ्कनकादिकान् ॥३३॥
[ विवेकमञ्जरी