________________
[३४३
गुणानुमोदनाद्वारे सीतादेवीकथा]
जन्मोत्सवं विधायाथ हृद्यं विद्याधराग्रणीः । तं भामण्डलसम्बन्धाद्नाम्ना भामण्डलं व्यधात् ॥१०॥ धात्रीभिः पञ्चभिः पाल्यमानोऽसौ ववृधे क्रमात् । नन्दाद्याभिर्यथा शुक्लतिथिभिर्बालचन्द्रमाः ॥११॥ इतश्चापहते तत्र विदेहा रोदिति स्म हा । जनकोऽन्वेषयन्नाप तत्प्रवृत्तिं च न क्वचित् ॥१२॥ हृते सुते सितेयं तदञ्जसेतीव नामतः । पितृभ्यां युग्मजा पुत्री सा सीतेति निरौच्यत ॥१३॥ पुत्रापहारभीताभ्यां पितृभ्यां साथ भूमये । कल्पिता लोठयित्वाऽस्यांभू सुतेति स्मृता ततः ॥१४॥ कालेन भूयसा शोकस्तयोः स्तोकत्वमीयिवान् । शोक-हर्षी हि जन्तूनामरघट्टघटीभ्रमौ ॥१५॥ व्यवहारव्यतीर्णेव लक्ष्मीरथ कलान्तरैः । सीता विववृधे धात्रीपञ्चकेनोपलालिता ॥१६॥ नितम्बस्थलमुल्लसिभ्रूवल्लि कुचपर्वतम् ।। साथ पञ्चेषुपञ्चास्यवनं यौवनमासदत् ॥१७॥ अनुरूपो वरः कः स्यादस्या इति दिवानिशम् । चिन्तयामास चित्ते तज्जनको जनको नृपः ॥१८॥ राज्ञोऽस्य मण्डलं राहुरिव म्लेच्छमहीपतिः । तदाऽग्रसद् बलै रङ्गन्नातरङ्गतमाभिधः ॥१९|| इतश्चादिमहीभर्तुरादिनाथस्य हेतवे । स्वस्तिमत्यस्त्ययोध्येति पुरन्दरकृता पुरी ॥२०॥ तत्रादिभूमिभृन्नप्त्रादित्यगोत्राब्धिचन्द्रमाः । अभूज्जनकभूपालसृहद दशरथो नृपः ॥२१॥