SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 ५८४] प्रद्योतस्तत् प्रपेदेऽथ चक्रे चाह्नाय तत् तथा । वीरा अपि हि कामेन क्रियन्ते भीरुकिङ्कराः ॥३७॥ भूयो मृगावती दूतमुखेनोचे पुरीमिमाम् । धनधान्येन्धनाद्यैस्त्वं चन्द्रप्रद्योत ! पूरय ||३८|| सर्वमह्नाय चक्रे तदपि प्रद्योत भूपतिः । न किं कुर्याद् न किं दद्याद् नरो नारीभिरर्थितः ? ॥३९॥ पुरीं रोधक्षमां मत्वा शालयित्वा च तां भटैः । तस्थौ तस्या भवस्येव बद्ध्वा द्वाराणि सा सती ॥४०॥ प्रद्योतोऽप्यभितो रुद्ध्वा स्थितः सूत्कारदारुणः । मृगावतीपुरीं दुग्धगर्गरीमिव पन्नगः ॥४१॥ 88 अन्येद्युर्भववैराग्याद् दध्याविति मृगावती । यद्येति भगवान् वीरः प्रव्रजामि तदाऽऽश्वहम् ॥४२॥ तदाशयं च मत्वेति श्रीवीरः सुरसार्थयुक् । तत्रैत्येशानदिग्भागे शमवान् समवारत् ॥४३॥ बहिर्महिमपात्रं तं श्रुत्वाऽऽयातं मृगावती । निरीय नगरीतो निर्भीका नन्तुं समाययौ ॥४४|| सा प्रणम्य जगन्नाथं यथास्थानमथास्थित । प्रद्योतोऽप्येत्य वन्दित्वा मुक्तवैरमुपाविशत् ॥४५॥ कामहत्पूरदोषेण विपर्यस्तदृशां विशाम् । शर्करादुग्धदेशीयां देशनां विदधे विभुः ॥४६॥ " दौर्गत्यभिदुरं साध्वाराद्धं यत्तदिहाङ्गिभिः । कृच्छादाप्येत मानुष्यं चिन्तारत्नभिवार्णवे ॥४७॥ तदपि प्राप्य विषयैर्गमयन्ति मुधा हहा । पादशौचेन पीयूषमिव दूषितवृत्तयः ॥ ४८ ॥ [विवेकमञ्जरी
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy