________________
[५८३
गुणानुमोदनाद्वारे मृगावतीकथा]
क्रुद्धोऽतिदण्डभृच्चण्डप्रद्योतोऽथ परन्दमः । चचाल प्रति कौशाम्बी छादिताशामुखो बलैः ॥२५।। सारङ्ग इव शार्दूलं तमायान्तं निशम्य सः । क्षोभाज्जातातिसारो द्राक् शतानीको व्यपद्यत ॥२६।। देवी मृगावती दध्यौ पतिस्तावद् व्यपादि मे । बालः स्वल्पबल: सूनुरसावुदयनोऽपि च ।।२७।। बलीयसोऽनुसरणं नीतिः स्त्रीलम्पटे त्विह । सा मे कुलकलङ्काय तस्मात् कैतवमर्हति ॥२८॥ वाचिकैरनुकूलैस्तदेनमत्र स्थिताप्यहम् । प्रलोभ्य वञ्चयिष्यामि कालं स्वसमयाप्तये ॥२९॥ विमृश्येत्यनुशिष्याथ दूतः प्रस्थापितस्तया । स्कन्धावारस्थितं गत्वा चण्डप्रद्योतमब्रवीत् ॥३०॥ ब्रूते मृगावतीति त्वां शतानीके दिवं गते । त्वमेव शरणं किन्तु पुत्रोऽप्राप्तबलो मम ॥३१॥ मया मुक्तोऽयामाशान्तदीप्तैरभिभविष्यते । भृशं पितृविपत्त्युत्थैः शोकावेशैरिवारिभिः ॥३२॥ प्रद्योतस्तद्गिरा हृष्टोऽभाषिष्ट ननु वः सुतम् । पराभवितुमीशः स्यात् को नाम मयि गोप्तरि ? ॥३३।। दूतोऽवदत् पुनर्देव ! देव्यैतदपि भाषितम् । जेतुं न कोऽप्यलम्भूष्णुः प्रद्योते सति मे सुतम् ॥३४॥ देवपादाः परं दूरे समीपे सीमभूभुजः । तद् योजशनते वैद्यः सर्पोऽस्त्युच्छीर्षके पुनः ॥३५॥ निर्विघ्ने तद् मया योगं यदीच्छसि कुरुष्व तत् । इष्टाकाभिरवन्त्यास्तत् कौशाम्ब्यां वप्रमप्रमम् ॥३६॥