________________
[विवेकमञ्जरी
५८२]
इति कोपेन तं दोषमुदीर्य नृपतिः स्वयम् । निग्रहायाग्रहात् तूर्णमारक्षाणां तमार्पयत् ॥१३॥ नृपं चित्रकृतोऽथोचुरसावेकांशदर्शनात् । लिखत्यखिलमालेख्यं यक्षदत्तवरौजसा ॥१४॥ इत्युक्तेऽस्य परीक्षार्थं राज्ञान्तर्धाय कुब्जिकाम् । अदर्श्यत मुखं तस्या अप्यलेखीच्च तां तथा ॥१५॥ तथापि क्षुद्रधी राजा तत्संदंशमकर्तयत् । चित्रकः सोऽपि साकेतयक्षमाराधयत् पुनः ॥१६।। सोऽप्यूचे वामहस्तेन तद्वच्चित्रं करिष्यसि । एवं लब्धवरश्चित्रकरोऽमर्षादचिन्तयत् ॥१७॥ निरागास्तेन राज्ञाऽहं किमिमां प्रापितो दशाम् । तस्य प्रतिकरिष्ये तदुपायेनापि केनचित् ॥१८॥ एवं चित्रपटे कृत्वा प्रद्योतस्य महीपतेः । गत्वा मृगावती रूपं स मनोज्ञमदर्शयत् ॥१९॥ तत प्रेक्ष्यावन्तिनाथोऽपि तमूचे चित्रकृद्वरम् । विधेपुंणाक्षरस्ते वा वद केयं सुलोचना ? ॥२०॥ तन्वीयं यत्र कुत्रास्तीन्दिरेव नृपमन्दिरे । तस्मादेनां ग्रहीष्यामि गरुडः पन्नगीमिव ॥२१॥ ततश्चित्रकरः प्रीतः प्राह पूर्णमनोरथः । कौशाम्बीन्द्रस्य देवेयं पत्नीरत्नं मृगावती ॥२२॥ प्रद्योतः प्राह मन्येऽहं तृणायापि न तं नृपम् । राजनीतिस्तथाप्यस्तु यातु दूतस्तदर्थने ॥२३॥ इति प्रैषीदयं दूतं शतानीकाय सोऽपि तम् । कद्वदं धारयामास गलेऽनर्गलमत्सरः ॥२४॥