________________
५८०]
[विवेकमञ्जरी
5
पर्यन्ते तदनालोच्य दुष्कर्म कपटोद्भवम् । मृत्वाऽनशनतः प्राप ईशानेन्द्रकलत्रताम् ॥४३३॥ ततश्च्युत्वा च भवती हरिषेणमहीपतेः ।
सुता प्रीतिमतीकुक्षिभवाऽभूदाश्रमावनौ ॥४३४॥ $$ प्राचीनकर्मपरमाणुमहोदयेन भद्रे ! तवाभवदयं विपुलः कलङ्कः ।
दुष्कर्म मर्मभिदुरं हि दुरन्तमेव न क्षीयते भवशतैरपि देहभाजाम् ।।४३५।। इति श्रुत्वा गुरोर्वाणी वैराग्यद्रुमसारणीम् । सापि जातिस्मृतिज्ञानचक्षुषा सर्वमैक्षत ।।४३६।। तदा किञ्च तदाकर्ण्य भूपालोऽपि विशेषतः । विरागितमनाः साक्षाद् गुरुं दीक्षामयाचत ॥४३७।। ऋषिदत्तापि वैराग्यवती गुरुमजिज्ञपत् । एतदेव पुराकर्मभयात्तपृथुवेपथुः ॥४३८॥ उवाच गुरुप्येतद् विलम्बोऽत्र न युज्यते । असारेऽमुत्रे संसारे सारेयं हि तपःक्रिया ॥४३९॥ अथ तौ दम्पती सिंहरथनामानमङ्गजम् । कृत्वा राजपदे दीक्षामाददाते तदन्तिके ॥४४०।। तौ गृहीतव्रतौ खङ्गधाराचक्र मणोपमम् । चक्रतु‘दशविधं तपः कपटवर्जितम् ॥४४१।। अन्यदा जग्मतुः साकं गुरुभिर्भद्रिलापुरम् । पुरं शीतलतीर्थेशजन्मना पावनीकृतम् ॥४४२॥ तपोहुताशे किल कर्मजालं पलालपूलप्रतिमं विधाय । अवापतुस्तत्र पुरे गरीयः सत्केवलज्ञानमयं महस्तौ ॥४४३॥ गतवति विततायु:कर्मणि प्रान्तमन्तःकरणशरणवैरिध्वंसनादात्तकीर्तिः । अथ पृथु मथितापत् केवलद्वन्द्वमेतत् परमपदमुदारानन्दसंदोहमूहे ॥४४४।।
॥ इति ऋषिदत्ताकथा ॥
15
25