________________
[५७९
गुणानुमोदनाद्वारे ऋषिदत्ताकथा]
त्वमासीस्तस्य तनया गङ्गाकुक्षिसमुद्भवा ।
गङ्गसेनेति निःसीमशीलपालनपण्डिता ॥४२१।। ' तत्रैवासीत् पुरे चन्द्रयशाः साध्वी तदन्तिके ।
मतं तीर्थकृतामाप भवती भवतीरदम् ॥४२२।। ततः कृतरतिस्तत्र जगदेवसहोदरे । विषयांस्त्वमवाज्ञासीरखिलान् खलसंनिभान् ॥४२३।। तदा तु चन्द्रयशसः प्रवर्त्तिन्याः पदान्तिके । निःसङ्गा यतिनी सङ्गाभिधा काचित् तपस्यति ॥४२४॥ नमस्यति जनः स्तौति तपस्यन्तीमुदीक्ष्य ताम् । नान्यदस्ति सदाचारादपरं यशसे यतः ॥४२५।। तत्प्रशंसामतीव त्वं सहसे न तदा शुभे ! । स्यादेवैकगुणानां हि मत्सरच्छुरितं मनः ।।४२६।। तस्याः श्लाघाविपर्यासमिच्छन्ती भवती ततः । अभ्याख्यानमतिप्रौढमदासीदूढमत्सरा ॥४२७॥ यदियं दम्भिनी सङ्गा तपस्यति दिवा तपः । राक्षसीव पुना रात्रौ ग्रसते मृतकामिषम् ॥४२८|| अभ्याख्यानमिदं साक्षात् प्रशमामृतदीर्घिका । तितिक्षामास सा सङ्गा भवभङ्गाभिधाविता ॥४२९॥ वत्से ! तुच्छस्त्वया कर्मबन्धः शर्मनिषूदनः । उपार्जितः पुनर्मिथ्यादुष्कृतादानतस्ततः ॥४३०॥ तद्विपाकवशाद् भ्रान्त्वा भवं बहु मुहुर्मुहुः । कर्मशेषे पुनर्गङ्गापुरे राजसुताऽभव ॥४३१॥ ततः प्राप्तदिनाधीशमुनिव्रतविराजिता । अकार्षीः कपटाटोपसंकटं विकटं तपः ॥४३२॥