________________
5
10
15
20
५७८ ]
मिलितं गलितं चापि घनवृन्दमुदीक्ष्य तत् । चिन्तयामास वैराग्यवानिदं मेदिनीपतिः ॥ ४०९॥ दृष्टनष्टमिदं यादृग् घनाघनकदम्बकम् । संसृतौ तादृगेवायुर्विभवादि चलाचलम् ॥४१०॥ उदिते सति भूपस्य वैराग्यमयतेजसि । कोऽहमित्याकलय्येव रविरत्रान्तरेऽसरत् ॥४११॥ भूपालोऽपि दयितया स साकमृषिदत्तया । विरागतिमना धर्मवार्त्ताभिरनयद् निशम् ॥४१२॥ प्रातः : कृत्यं च निर्माय यावदास्थानमास्थितः । आरादारामिकेणेयं तावदित्यभ्यधीयत ॥४१३॥ नाथ ! भद्रयशाः सूरिरुद्याने कुसुमाकरे । आगत्य सपरिवारः शमवान् समवासरत् ॥४१४॥ इत्याकर्ण्य वितीर्यास्मै पारितोषिकमञ्जसा । जगाम सपरिवारो नमस्कर्तुं गुरून् नृपः ॥४१५॥ प्रणम्याग्रे निविष्टेऽस्मिन् गुरुर्गम्भीरया गिरा । चकार भवनिस्तारदायिनीं देशनामथ ॥४१६॥ विधाय देशनां ज्ञानगुरौ तत्र गुरौ तदा । विरते सत्यदोऽवादीदृषिदत्ता कृताञ्जलिः ||४१७॥ निर्मितं कर्म भगवन् ! किं मया पूर्वजन्मनि । राक्षसीति ममालीकः कलङ्को यदजायत ? ॥४१८॥ अथोवाच स तां साचीकृतप्राचीनकल्मषः । प्रतिबोधसुधावृष्टिपुष्पकरावर्तको गुरुः ॥४१९॥ $$ अस्तीह भारते भद्रे ! परं गङ्गापुरं पुरम् । अभूद् भूमीपतिर्गङ्गदत्तस्तत्रातिविक्रमी ॥४२०॥
[ विवेकमञ्जरी