________________
[५७७
गुणानुमोदनाद्वारे ऋषिदत्ताकथा]
इति भर्तुर्वचः प्राप्य रुक्मिणीमतिगौरवात् । ऋषिदत्तात्मनाऽऽहूय लज्जाभङ्गमसूत्रयत् ॥३९७|| अथापृच्छय कुमारोऽपि कावेरीपतिमादरात् । दयिताभ्यां युतस्ताभ्यामाजगाम निजं पुरम् ॥३९८।। अभ्याजगाम तनयमथो हेमरथो नृपः । कुर्वन् करिमदैर्दत्तच्छटामिव वसुन्धराम् ॥३९९॥ रङ्गत्तुरङ्गतुण्डागपातिभि: फेनबिन्दुभिः । तदा रराज परितः सपुष्पप्रकरेव भूः ॥४००।। विलोक्य तातमायान्तमुत्तीर्णोऽथ रथादसौ । कुमारः सारविनयो ननाम लुठदङ्गकैः ॥४०१॥ पादानतं तमुत्थाप्य परिरभ्य च वक्षसा । चुचुम्ब शिरसि क्षोणीपतिः प्रीतितरङ्गितः ॥४०२।। पुरं पुरुपुरन्ध्रीहक्क्लु प्तवन्दनमालिकम् । नृपः प्रावेशयदथो वधूयुगयुतं सुतम् ॥४०३।। ऋषिदत्तां सतीचक्रचूडामणिममानयत् । ज्ञातोदन्तः क्षितेरिन्दुरपि स्वागसि लज्जितः ॥४०४॥ क्रमात् कृत्वैष कनकरथसादखिलामिलाम् । भद्राचार्यपदोपान्ते व्रतमादाय निर्वृतः ॥४०५।। अथ न्यायेन कनकरथः शासन् वसुन्धराम् ।
अवाप ऋषिदत्तायां नाम्ना सिंहरथं सुतम् ॥४०६॥ $$ ऋषिदत्तान्वितः क्षोणीपतिर्वातायनस्थितः ।
अद्राक्षीदन्तरिक्षेऽम्बुवाहमण्डलमन्यदा ॥४०७।। प्रचण्डपवनस्तच्च तत्क्षणादेव दैवतः । सिद्धं कार्यमिवानार्यः प्रापयद् विशरारुताम् ॥४०८॥