________________
५७६]
10
[विवेकमञ्जरी सुलसां तु महीपालः पापिनी तामपापधीः । भ्रमयित्वा पुरे पौर्निन्द्यमानामनारतम् ॥३८५।। रासभारोपितां मुष्टियष्ट्यादिपरिताडिताम् । ..... पुरतः परितो वाद्यमानकाहलडिण्डिमाम् ॥३८६॥ ... विलूनकर्णयुगलनासिकां निरवासयत् ।। अवध्या हि सतामेते नारीगोद्विजलिङ्गिनः ॥३८७॥ विशेशकम् ॥ नन्दनीं स्वामपि महीपती रहसि रंहसा । निरभर्सयदत्यन्तरूक्षाक्षरकिरा गिरा ॥३८८॥ कुमारोऽपि कियत्कालं, सहैव ऋषिदत्तया ।
तस्थौ विषयवांस्तत्र श्वशुरेण प्रमोदितः ॥३८९॥ $$ अन्यदा च प्रियामूचे तामुत्सङ्गनिषेदुषीम् ।
कुमारः स्फारशोकाश्रुजलाविलविलोचनः ॥३९०।। प्रिये ! सर्वमिदं भव्यमभूद् मित्रं परं मम । कष्टमास्ते विधेः पार्श्वे त्वत्पदे प्रहितो मुनिः ॥३९१॥ परार्थकर्मठेनाद्य मठेन गुणसम्पदाम् । मित्रेण रहिता जज्ञे भूरियं मे तमोमयी ॥३९२॥ ऋषिदत्ता विहस्याह मा विषीदावधारय । देवाखर्वमिदं सर्वमोषधीललितं मम ॥३९३।। किञ्च मे वरमायच्छ यस्त्वयास्ति प्रतिश्रुतः । । प्रसीद पश्य दयित ! रुक्मिणीमपि मामिव ॥३९४|| दध्याविति कुमारोऽपि श्रुत्वा तद्भारतीमहो । विरोधिन्यामपि मनोवृत्तिरस्या कृपावती ॥३९५॥ विचिन्त्येति हृदा भूमीपतिसूनुस्तदा मुदा । उवाच दयितामेवमस्तु देवि ! विवेकिनि ! ॥३९६।।
15